________________
२५६
काव्यमाला। त्वयापि जारादेर्व्यवहारविशेषणत्वेनोपस्थितिरवश्यं वाच्या । अन्यथा स्वरूपेण व्यवहारमात्रारोपे चारुत्वानुपपत्तेः । एवं चावश्योपस्थितिकस्य जारादेस्तादृशचुम्बनकर्तरि चन्द्रादावेव तादात्म्येन विशेषणत्वमुचितम्, न तु व्यवहारे भेदसंसर्गेण, चन्द्रजारयोरभेदप्रतीति विना परना. यिकावदनचुम्बनस्याहृयत्वात् । अपि च 'निशामुखं चुम्बति चन्द्र एषः' इत्यत्र स्त्रीपुंलिङ्गाभ्यां मुखचुम्बनरूपार्थसहकारेण नायिकात्वं नायकत्वं व्यज्यत इति निर्विवादम् । अन्यथा
'निशामुखं चुम्बति चन्द्रिकैषा अहर्मुखं चुम्बति भानुबिम्बम् ।' इत्यादावपि तव्यञ्जनापत्तेः । एवं च स्त्रीप्रत्ययादिना व्यज्यमानं नायिकात्वादिकं निशादेर्नायिकात्व एव पर्यवस्यति, व्यञ्जकस्य स्त्रीत्वादेः खसामानाधिकरण्येन तदाक्षेपकत्वौचित्यात् । निशाशशिनो यकताख्यधर्मविशिष्टयोः प्रतीतिरिति सर्वखकारग्रन्थविरोधाच्च । अविनाभावादप्रकृतव्यवहाराक्षिप्तेन धर्मेणैव प्रस्तुतो धर्म्यवच्छिद्यत इति तद्विवरणग्रन्थाच्च नायकत्वारोपस्यैव प्रतीतेः । किं च-व्यवहाराक्षिप्तस्य नायकस्य तद्विशेषणत्वमेव न तु चन्द्रादिविशेषणत्वम् , तत्समानाधिकरणपदानुपस्थाप्यत्वादित्यप्ययुक्तम् । एवं सति निशायामपि नायिकात्वारोपो न स्यात्, किं तु व्यवहारविशेषणत्वेनोपस्थितिरेव, तच्च न संभवति नायिकात्वानालिङ्गितकेवलरात्रिमुखचुम्बनस्य नायिकासंबन्धित्वात् , रात्रितादात्म्यं विना नायिकाया मुखविशेषणत्वायोगाच्च । किं च
'निर्लक्ष्मीकाभवत्प्राची प्रतीची याति भास्करे ।
प्रिये विपक्षरमणीसक्ते का मुदमञ्चति ॥ इत्यत्र भास्करादीनां नायकत्वाप्रतीतौ उत्तरार्धे प्रियवादिना समर्थनमप्यनुपपन्नं स्यात् । अन्यच्च-अप्रकृतव्यवहारः प्रकृतविशेष्ये तब्यवहारताटस्थ्येनारोप्यते, तदभेदेन वा । नाद्यः । तथा सति 'ऐन्द्रीमुखचुम्बनकर्ता नायिकामुखचुम्बनकर्ता च चन्द्रः' इति ‘एकत्र द्वयम्' इति रीत्या . बोधः स्यात् । न चेष्टापत्तिः । ऐन्द्यां नायिकात्वस्य चन्द्रे नायकत्वस्य वाप्रतीतिप्रसङ्गात् । नान्त्यः । तदपेक्षया प्रकृतव्यवहारविशेष्यकाभेदसंसर्ग