________________
अलंकारकौस्तुभः ।
२५५ इत्यत्र यथा विष्णुकार्य सेतुबन्धरूपं राज्ञो विष्णुत्वगमकम्, तथेहापि चन्द्रस्यापि जारत्वादिगमकं किंचिदुपात्तम् । तथा च विशेषणसामर्थ्यादवगतस्याप्रस्तुतव्यवहारस्य समारोपादेवात्र चमत्कार इत्यभ्युपगन्तव्यम् । यद्यप्यर्थयोर्द्वयोरपि प्राधान्यमविशिष्टमेवेति प्रकृतेऽप्रकृतव्यवहारारोपोऽप्रकृते प्रकृतव्यवहारारोपो वेत्यत्र विनिगमकं नास्ति, तथाप्यन्यतरव्यवहाराश्रये धर्मिण्यन्यतरव्यवहारारोपस्यावश्यमसंगतिपरिहाराय स्वीकरणीयतया प्रकृतव्यवहारधर्मिण्यप्रकृतव्यवहारारोप एव स्वीकर्तुमर्हः । न चारोपस्य वैयर्थ्यमिति वाच्यम् । स्वरूपतो ज्ञानस्यारोपे चारुत्वाभावात्कामुकाद्यप्रस्तुतधर्मिसंबन्धित्वेनावगम्यमानपरस्परसानुगुणत्वादारोपात् । कामुकादेश्च शब्दादनुपस्थितस्यापि चुम्बनादिव्यञ्जितस्य व्यवहारविशेषणत्वम् । तस्मात्
____'अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः।' इत्यत्र 'जारसंबन्धितादृशचुम्बनात्मकव्यवहाराश्रयश्चन्द्रः' इति बोधःइति ॥ तदयुक्तम् । 'मुखं चन्द्रः' इत्यत्र चन्द्रत्वस्यानारोपेण चन्द्रत्वारोप इत्युक्तेस्तावदसंगतत्वात् । चन्द्रविशेषणस्य चन्द्रत्वस्य मुखे आरोपासंभवात्, किं त्वभेदसंसर्गेण चन्द्रस्यैव मुखे आरोपात् । किं च जारादिपदसमभिव्याहाराभावात्तदनारोप इत्यपि न युक्तम् । शान्दारोपे हि तत्समभिव्याहारोपेक्षितो न त्वार्थारोपे, रूपकध्वनेरुच्छेदप्रसङ्गात् । न च तत्रारोप्यमाणासाधारणधर्मोक्त्या प्रकृते तत्तादात्म्यमभिव्यज्यत इति वाच्यम् । इहापि परनायिकावदनचुम्बनस्य चन्द्रे आरोप्यमाणस्य जारासाधारणधर्मत्वेन तत्तादात्म्यव्यञ्जकत्वसंभवात् । एतेन 'विद्युन्नयनैः-' इत्यादौ चाक्षुषादेः पुरुषत्वाद्याक्षेपकस्येवात्र चन्द्रे जारत्वस्याक्षेपकत्वाभाव इति निरस्तम् ॥ न च चन्द्रादौ जारत्वाद्यारोपं विनापि जारव्यवहारारोपसंभवेनानुपपत्त्यभावान्न तस्य जारत्वाक्षेपकत्वमिति वाच्यम् । आक्षेपरूपगमकस्यानुपपत्तिसापेक्षत्वेऽपि व्यञ्जकरूपगमकस्य तदनपेक्षत्वात् । अन्यथा अर्थापत्त्यैव निर्वाहे व्यञ्जनवैयर्थ्यप्रसङ्गात् । १. 'मन्थरूप' ख. २. 'कासुकौद्य' ख. ३. 'मानस्य रसा' ख.