________________
२५४ .
काव्यमाला।
एव । नाद्यः । चन्द्रादेर्नायकव्यवहाराश्रयत्वेन तत्साम्यस्यैव सिद्ध्यापत्तेः । न चेष्टापत्तिः । श्लेषमूलकाभेदाध्यवसायेन व्यवहाराभेदस्यैव कवेर्विवक्षितत्वात् । नायकस्य व्यवहारविशेषणत्वे तु नायकत्वस्य सिद्ध्यनापत्तेश्च । किं चैवम् 'निशामुखं चुम्बति चन्द्र एषः' इत्यादौ यथा चन्द्रे न नायकत्वारोपः एवं निशायां नायिकात्वारोपोऽपि न स्यात् । न्यायसाम्यात् । नायिकानालिङ्गितमुखचुम्बनमात्रस्य चमत्कारकत्वाभावेन मुखचुम्बनस्यासाधारणनायकव्यवहारानुपपत्तेश्चेत्यारोपस्यापि वैयर्थ्य स्यात् । यदि तु निशायां स्त्रीप्रत्ययद्योत्यं नायिकात्वं खप्रकृत्यर्थवृत्तित्वेनैव प्रतीयते इति निशो नायिकात्वबोध इत्युच्यते तदा पुंस्त्वस्यापि चन्द्रवृत्तित्वेन बोधे बाधकाभावात्तत्रापि नायकत्वारोपे बाधकाभावः । न द्वितीयः । मुखचुम्बनमात्रस्याहृद्यत्वात् ।
यच्च अलंकारसर्वस्वकारमतानुयायिना कुवलयानन्दकृतोक्तम्-अत्र विशेषणसाम्यादिना यदप्रस्तुतवृत्तान्तस्य प्रत्यायनं तत्प्रकृतविशेष्ये तदारोपार्थमेव । सर्वथैव. प्रकृतानन्वयिनः कविसंरम्भगोचरत्वायोगात् । तथा च समासोक्तावप्रकृतव्यवहारसमारोपश्चमत्कारहेतुर्न तु रूपकवत्प्रकृतेऽप्रकृतरूपारोपोऽप्यस्ति । मुखादौ चन्द्रत्वाधारोपहेतुश्चन्द्रादिपदस्य समभिव्याहारवत् चन्द्रादौ नायकाद्यारोपहेतुतादृशपदप्रयोगस्यासत्त्वात् । न चात्र'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः ।
धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं ररासे । इत्यत्र निरीक्षणानुगुणनयनपदोपादानं यथा मेघस्य द्रष्टुत्वगमकं तद्वनायकत्वारोपगमकं किंचिदस्ति । न वा
'त्वय्यागते किमिति वेपत एष सिन्धु
स्त्वं सेतुबन्धकृदतः किमसौ बिभेति । द्वीपान्तरेऽपि नहि तेऽस्त्यवशंवदोऽद्य
त्वां राजपुंगव निषेवत एव लक्ष्मीः ॥'
१. 'नायक' ख.