________________
अलंकारकौस्तुभः।
२५१ तया दुर्वारमेव प्रतिबन्धकत्वमिति । एवं च द्वितीयार्थबोधार्थमन्यत्र कुप्ता व्यञ्जनैव खीकर्तुमुचिता ।
___ 'जैमिनीयमलं धत्ते रसनायां महामतिः ।' इत्यादौ बाधितार्थबोधस्य शक्त्या दुरुपपादत्वाच्च । कथंचिदुपपत्तावपि देवदत्तेन पुत्रं प्रति तादृशप्रयोगे असभ्यार्थानुपस्थितिः । शालकादिना प्रयोगे तूपस्थितिरित्यपि नियमो न स्यात् । बोद्धव्यादिवैशिष्टयस्य व्यङ्गयप्रतिभामात्रहेतुत्वादिति । अत एव 'अयमतिजरठाः-' इत्यादिवदत्रापि गूढ श्लेष एवेत्यपि परास्तम् । समासोक्तावपि व्यञ्जनयैवाप्रकृतार्थप्रतीत्यभ्युपगमात् । अत एव ध्वनिकारेण समासोक्तर्गुणीभूतव्यङ्गयान्तर्भावः स्वीकृतः 'पूर्वप्रकरणे समासोक्त्या श्लेषो बाध्यते' इत्युद्भटचार्यादिभिरप्युक्तम् । तत्र श्लेषत्वे च तद्बाध्यत्वोक्त्यनुपपत्तेरिति । किं च । अनेकार्थस्थले कथंचिदप्रकृतार्थस्य शक्त्या बोधोऽस्तु । योगरूढिस्थले तु न तदुक्तिसंभवः ॥ यथा-- 'चाञ्चल्ययोगि नयनं तव जलजानां श्रियं हरतु ।
विपिनेऽतिचञ्चलानामपि च मृगीणां कथं नु तां हरति ॥ अत्र चाञ्चल्यरहितानां पद्मानां श्रीहरणसंभवेऽपि तद्वतां हरिणानां तदाश्चर्यमिति वाच्यार्थपर्यवसन्नेऽपि केवलयोगमर्यादया मूर्खपुत्राणां धनहरणं नेतृभिश्चौरैः सुशकं न तु गवेषकाणामिति जलजमृगशब्देभ्यः प्रती. यमानस्यार्थस्य विना व्यञ्जनामुपपादयितुमशक्यत्वात् । योगस्य रूढ्या नियमेनार्थान्तरबोधासामर्थ्यात् । अत एव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृत्वप्रकारककुमुदादिविशेष्यकबोधो लक्षणयैवेति नैयायिकाः । न चात्रापि लक्षणैवास्त्विति वाच्यम् । मुख्यार्थबाधाभावात् । न च तात्पर्यबाधादेव सास्त्विति वाच्यम् । चोरव्यवहारे कवेस्तात्पर्यमिति ज्ञानस्योपायाभावेन तात्पर्यस्यैवाग्रहात् व्यञ्जनाया एव तदर्थग्राहकत्वादित्याहुः ॥
इत्यलंकारकौस्तुभे श्लेषनिरूपणम् ।