________________
२९२
काव्यमाला ।
समासोक्ति लक्षयति
यत्र प्रकारवाचकपदमात्रं व्यङ्गयवाच्यसामान्यम् । तच्छक्तेरप्रकृतार्थोक्तिः सोक्ता समासोक्तिः ॥ १ ॥ यत्र प्रस्तुतार्थतात्पर्य के वाक्ये विशेषणपदानि वाच्यव्यङ्गयोभयानुगामीनि न त्वनेकार्थानीति नियमः । तत्रोभयानुगतविशेषणानां सामर्थ्यात् प्रकृतेनाप्रकृतार्थप्रत्यायनं समासोक्तिः । समासेन संक्षेपेणार्थद्वयस्योक्तेः प्रत्यायनादित्यर्थः । एवं च 'विशेषणार्थकपदमात्रवृत्तिश्लेषसामर्थ्यादप्रस्तुतार्थबोध: सा' इति फलितम् । धूमपदाद्वयाप्तिज्ञानादिना वह्निबोधातिव्याप्तिवारणाय सामर्थ्यादित्यन्तम् ।
‘उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन जरठोजित गर्जितेन । निर्वापितः सकल एव रणे रिपूणां
धाराजलैस्त्रिजगति ज्वलितः प्रतापः ॥'
इत्यादौ विशेषणविशेष्योभयश्लेषलभ्ये उपमाध्वनावतिव्याप्तिनिषेधाय मात्रेति । तथा च । यत्र विशेषणमात्रे श्लेषस्तत्र समासोक्तिः, विशेष्यस्यापि श्लेषे तूपमाध्वनिरेवेति फलितार्थः । अत्र विशेषणसामर्थ्यमेतदेव । यदप्रकृते प्रसिद्धधर्मस्य प्रकृते समारोपात्तद्व्यवहारावच्छेदकतया तत्प्रतियोगिनोऽप्रकृतार्थस्य प्रतीतिरिति ध्येयम् । यत्राप्रकृतेन प्रकृतार्थबोधनम्, तत्राप्रस्तुतप्रशंसा, प्रकृतेन अप्रकृतार्थबोधनं तु समासोक्तिरिति विवेकः ।
यथा मम -
‘उत्सारयत्यलकमञ्जरिमञ्जनाभां वक्षोजकुम्भवसनाञ्चलमुद्धुनोति । बिम्बाधरं किमपि चुम्बति पङ्कजाक्ष्या लोलः कपोलतलयोर्विषजन्समीरः ॥'
इहालकापसारणस्तनवसनापकरणादयो धर्मा मारुतनायकोभयसाधारणाः । समीरपदं तु मारुत एव शक्तम् । अतो नायकप्रसिद्धधर्माणां