________________
२५०
काव्यमाला |
'एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः । वाल्मीकेररहितरामलक्ष्मणानां साधर्म्य दधति गिरां महासरस्यः ॥' इत्यादिवद्विभक्तिभेदेऽपि उभयत्र तदन्वयाक्षेपकं साधर्म्यमिह संनिबद्धमस्ति, येनाक्षिप्त श्लेषोऽपि स्यात् । सममिति तु क्रियाविशेषणं सहार्थत्वेनापि उपपन्नम् । वधूषु श्लिष्टविशेषणान्वयात् प्रागप्रतीतं साधर्म्य नाव - लम्बते । तस्मादर्थसौन्दर्यबलादेव तदन्वयानुसंधानमिति गूढश्लेषः । तदनु 1 तद्बलादेव समशब्दस्य साधर्म्यार्थकल्पनमित्युपमाङ्गमयं श्लेषः - इति ॥ अत्र रसगङ्गाधरकृतः — यत्तावदुक्तम् ' अप्रकृतार्थस्य व्यङ्ग्यत्वं न प्राचामभिमतं किं तु उपमादेरेव' इति, तदयुक्तम् ।
'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृद्वयावृत्तिरञ्जनम् ॥'
इति ग्रन्थविरोधात् । अप्रकृतार्थव्यञ्जकत्वं व्यञ्जनाया एवेत्येतदर्थात् ॥ न नेकार्थस्यापि शब्दस्योपमावाचकत्वं प्रसक्तम्, येन तन्नियन्त्रणार्थं संयोगाद्यनुसारः स्यात् । अर्थद्वयस्य वाच्यताया अप्युपमादेर्व्यङ्ग्यत्वानपायाच्च ॥ यदप्युक्तम्— 'द्वितीयार्थस्यापि शक्त्यैव प्रतीतिः' इत्यादि, तदप्यसत्। द्वितीयार्थविषयकशक्तेरेव नियन्त्रणस्य तैरुक्तत्वेन शक्त्या तोधासंभवात् ॥ न च नियन्त्रणं प्रथमिक बोधाजननमात्रम्, तथा च प्रथमं द्वितीयार्थबोधाभावेऽपि प्रकृतार्थबोधानन्तरं शक्त्या द्वितीयार्थबोधे बाधकाभाव इति वाच्यम् । एवं हि प्रथममपि न कुतो द्वितीयार्थबोध: । प्रकरणज्ञानस्य तत्प्रतिबन्धकत्वादिति चेत्, तार्हं चरममपि कथं तद्बोधः प्रतिबन्धकस्य सत्त्वात् ॥ न च ज्ञानस्य क्षणद्वयावस्थायितया प्रकरणज्ञाने नष्टे तदुत्तरं प्रतिबन्धकाभावाच्छक्त्यैव द्वितीयार्थबोध इति वाच्यम् । तथापि द्वितीयप्रतिबन्धकज्ञानसत्त्वात् । न हि प्रकृतार्थबोधपूर्वकालीनप्रकरणज्ञानस्यापि तद्व्यक्तित्वेन प्रतिबन्धकत्वम्, प्रतिबध्यप्रतिबन्धकभावबाहुल्यप्रसङ्गात् । किं तु प्रकरणज्ञानत्वेनैव । एवं च प्रकृतार्थबोधोत्तरकालीनप्रकरणादिज्ञानस्यापि प्रकरणादिज्ञानत्वरूपप्रतिबन्धकतावच्छेदकधर्मावच्छिन्न