________________
अलंकारकौस्तुभः ।
२४९
यथा--
'भद्रात्मनो दुरधिरोहतनोविशाल___ वंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लवगतेः परवारणस्य
दानाम्बुसेकसुभगः सततं करोऽभूत् ॥' 'असावुदयमारूढः कान्तिमानक्तमण्डलः ।
राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥' इत्यादौ । अत्र गजचन्द्रादिरूपोऽप्रकृतार्थो व्यञ्जनागम्य इति न तेषामभिप्रायः, किं तु प्रकृताप्रकृतार्थाभिधानमूलक उपमाद्यलंकारो व्यङ्ग इत्येव । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यत्वेन व्यक्त्यनपेक्ष्यत्वात् । यद्यपि प्रकरणबलेन प्रकृतार्थस्यैव झटितिप्रतीतिविषयत्वे सति पश्चान्नृपतितद्राह्यधनादिवाचकानां राजकरादिशब्दानां परस्परसमभिव्याहारबलात्तद्विषयकशक्त्यन्तरोन्मेषपूर्वकमप्रकृतार्थः स्फुरति, नैतावता व्यङ्गयत्वसंभवः । शक्त्या प्रतिपाद्यमाने सर्वथैव तदनपेक्षणात् ॥ पर्यवसिते प्रकृतार्थे पश्चास्फुरतीति चेत्, तर्हि गूढश्लेषोऽस्तु । अस्ति चान्यत्रापि गूढ श्लेषः । 'अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः । सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥' ।। ..., 'मन्दममिमधुरर्यमोपला दर्शितश्वयथु चाभवत्तमः ।
दृष्टयस्तिमिरज सिषेविरे दोषमौषधपतेरसंनिधौ ।' अत्र हि समासोक्त्युदाहरणयोः प्राकरणिकार्थबोधानन्तरं विशेषणसाम्यादप्रकृतोऽपि वृद्धवेश्याव्यवहारादिः प्रतीयते । तत्र चाभङ्गश्लेष इति सर्वाभिमत एषः । एवम्'रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥' मा १४ .. इत्यादावपि गूढ श्लेष एव । अत्र द्वितीयान्तादिविशेषणोपस्थापितानामर्थान्तराणां विभक्तिभेदेन वधूभिरेन्वयात् । नापि
१. 'रनन्वयात्' ख.