________________
२४६
काव्यमाला। यश्चित्रमच्युतशरो लक्ष्यमभावीन्नमस्तस्मै ॥' इति विरोधस्य,
'कवीनां संतापो भ्रमणमभितो दुर्गतिरिति
त्रयाणां पञ्चत्वं रचयसि न तच्चित्रमधिकम् । त्रयाणां वेदानां व्यरचि नवता वीर भवता
द्विषत्सेनालीनामयुतमपि लक्ष्यं यदकृथाः ॥' इत्यनुमानस्येत्यादि । तत्र किं श्लेषस्तेषां बाधको बाध्यो वा संकीर्णो वेति ॥ __ अत्र केचित् । श्लेषस्यालंकारान्तरनिर्मुक्तविषयाभावान्निरवकाशत्वेन सर्वालंकारापवादकत्वम् । यत्र हि द्वयोरेवाप्रकृतत्वं प्रकृतत्वं वा तत्र तुल्ययोगिताया एव संभवात् । न च
'देव त्वमेव पातालमाशानां त्वं निबन्धनम् ।
___ त्वं चामरमरुद्भमिरेको लोकत्रयात्मकः ॥' इति विविक्तोऽस्य विषय इति वाच्यम् । तत्रापि श्लेषोपस्थापितार्थयोरभेदारोपं विना लोकत्रयात्मकत्वस्यानुपपत्त्या रूपकसंभवात् । अत एव 'विद्वन्मानस-' इत्यादौ मनसि मानसत्वारोपेण स्वच्छत्वस्य, राज्ञि हंसत्वारोपेणोदारत्वादेश्च प्रतीते रूपकखीकारः, अत्र तु राज्ञि पातालत्वादिरूपणे प्रयोजनाभावात् श्लेष एव कवेस्तात्पर्यमिति निरस्तम् । अत एव च तत्र व्यङ्गयत्वेऽपि रूपकस्य (न) वाच्य[तो] तदपेक्षयैव विविक्तविषयगवेषणादित्यपि न युक्तम् । न चैवं तत्र कथमुपमारूपकादीनां प्रतीतिः । त्वन्मते तत्र तेषामभावादिति वाच्यम् । तेषां प्रतिभानमात्रस्वीकारात् । श्वैत्येन शुक्तौ रजतप्रतिपत्तिवत् । वास्तवस्तत्र श्लेष एव । तस्मादीदृशस्थले श्लेष एवाशेषालंकारबाधको युक्त इति ॥
अन्ये त्वाहुः-विषयान्तराभावे हि बाध्यबाधकभावो युक्तः, न त्वत्र तथास्ति, श्लेषस्यालंकारान्तरनिर्मुक्तविषयसत्त्वात् । १.-२. ख-पुस्तके नास्ति.