________________
अलंकारकौस्तुभः ।
२४१ काराश्च शब्दनिष्ठास्तादृशानुपूवर्किशब्दोपादान एव तदवभासात् । व्यर्थत्वादिदोषाः प्रौढ्यादिगुणाः उपमाद्यलंकाराश्चार्थनिष्ठाः । तदर्थकशब्दान्तरोपादानेऽपि यत्रोभयानुगतार्थप्रतीतिसंभवस्तस्य तद्विषयत्वात् । यथा
'स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥' इत्यादौ । अत्र 'अल्पेनोन्नतिमायाति' इत्यादिप्रयोगेऽपि श्लेषनिर्वाहात् । किं च । शब्दश्लेषोऽर्थालंकार इति परस्परव्याहतम् । श्लेषस्य शब्दानाश्रितत्वे शब्द श्लेष इति व्यपदेशानौचित्यात् । तथात्वे वार्थालंकारतानौचित्यात् । कविसंरम्भगोचरस्यैव वैचित्र्यास्पदत्वेनालंकारत्वात् । प्रकृते च शब्द एव कवेस्तात्पर्यावगमात् ।। यत्तु-अर्थमुखप्रेक्षितत्वं शब्दानाम् इति, तन्न । एवं सत्यनुप्रासादीनामप्यर्थालंकारत्वापत्तेः । रसादिव्यअकवाच्यार्थापेक्षत्वेनैवानुप्रसादेरलंकारत्वात् । एवं सति शाब्दत्वाभिमतगुणदोषादेरप्यार्थत्वापत्तेश्च । अर्थापेक्षयैव तथात्वात् ॥ यदपि-एकप्रयत्नोचार्यशब्दबन्धेऽर्थश्लेषत्वम्-इति, तदपि न । विधावित्यादिवर्णश्लेषस्याप्यर्थश्लेषत्वापत्तेः-इत्याह ॥
इदं चात्र विचार्यम्-अयं श्लेषस्तावदलंकारान्तरस्य विषये निविशमानो दृश्यते । यथा
'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव ।' इत्यत्रोपमायाः, 'सद्वंशमुक्तामणिः' इत्यत्र रूपकस्य,
'नाल्पः कविरिव स्वल्पश्लोको देव महान्भवान् ।' इति व्यतिरेकस्य,
___'अनुरागवती संध्या दिवसस्तु पुरःसरः ।
___ अहो दैवगतिश्चित्रा तथापि न समागमः ॥' इति समासोक्तेः,
'आदाय चापमचलं कृत्वा हीनं गुणं विषमदृष्टिः ।