________________
२४४
काव्यमाला।
अत्र लिटि प्रथमोत्तमपुरुषैकवचने 'तस्थौ' इति, 'उल्ललास' इति च रूपं तुल्यम् ॥ विभक्तिश्लेषो यथा ममैव
'दशना मौक्तिकविशदा अधरावपि बिम्बसंकाशौ ।
तन्वि चकासति वदने तव नासा वंशसोदर्या ॥' अत्र चकासतीति तिङि बहुवचनान्तम् । शतृप्रत्यये सप्तम्येकवचनेऽपि तदेव रूपम् ॥ . वचन श्लेषो यथा
'अपि लोकयुगं दृशावपि श्रुतदृष्टा रमणीगुणा अपि ।
श्रुतिगामितया दमखसुर्व्यतिभाते सुतरां धरापते ॥ अत्र व्यतिभाते इति वचनत्रयेऽपि तुल्यम् ॥ .. अत्राष्टानां मध्ये यस्य यत्रान्तर्भावः प्रतिभाति तत्र तद्भिन्नत्वं विवक्षणी. यम् । अतो न दोषः इति ध्येयम् ॥ अत्रायं विवेकः-द्विविधोऽप्ययं श्लेषोऽर्थालंकार एव । अर्थान्तरस्य वाक्यार्थानन्वये नानार्थकपदसत्त्वेऽपि श्लेषव्यवहारविरहात् । तथाहि । स्वरितादिगुणभेदेन भिन्नानां शब्दानां भिन्नप्रयत्नोच्चारणयोग्यत्वेऽपि श्लेषोपपत्त्यर्थ स्वरभेदमवधूयैकप्रयत्नेनोच्चारणे शब्दश्लेषः ॥ यथा_ 'पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।
विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥' । २. .. इत्यादौ समासभेदेन स्वरभेदात्तद्भेदेन च शब्दभेदावश्यकत्वात्तत्र जतुकाष्ठन्यायेन शब्दयोरेव श्लिष्टत्वात् ॥ यत्र तु स्वरभेदो नास्ति तत्रैकप्रयत्नोच्चार्यत्वेन शब्दभेदाभावादर्थश्लेषः । एकवृत्तगतफलद्वयन्यायेनार्थयोरेव श्लिष्टत्वादिति सर्वस्वकारादयः ॥
काव्यप्रकाशकारस्तु-दोषगुणालंकाराणां शब्दार्थवृत्तित्वावधारणं तावदन्वयव्यतिरेकगम्यम् । तथा हि-शब्दानां परिवृत्त्यसहत्वे शब्दवृत्तित्वम्, तत्सहत्वे त्वर्थवृत्तित्वम् । कष्टत्वादिदोषा गाढत्वादिगुणा अनुप्रासाद्यलं