________________
अलंकारकौस्तुभः।
२४३ भाषाश्लेषो यथा ममैव
'अम्बाहरा विदूरे कामं मे सुरहि तारेइ ।
सरसावि दुरेहाली करणेसुवि दुद्धरा सहसा ॥' अत्र संस्कृतपक्षे 'इ' इति लक्ष्मीसंबुद्धिः । अम्बेति तद्विशेषणम् । सुराणां हितविषये अरे शीघे इत्यपि तथा । 'क्लीवे शीघ्राद्यसत्त्वे स्यात्रिध्वेषां भेदगामि यत्' इत्यमरात् । अरपदस्य शैध्यवत्परस्य स्त्रीत्वम् । अविदूरे संनिहितमेव मम काममभिलाषमाहर संपादयेत्यर्थः । विदुराणां पण्डितानाम् ईहाली इच्छापरम्परा तत्करणे सरसा सप्रीतिः । सुष्ठु विदन्ति तत्स्वरूपं जानन्ति सुविदस्तानुद्धरति संसारादिति तथा । इदं च त्वमित्यस्य विशेषणम् । प्राकृतपक्षेतु कस्यचिद्विरहिण उक्तिः–'ताम्राधरा विदूरे कामं मे सुरभिर्वसन्तस्तारयति वर्धयति । सरसा सशब्दापि द्विरेफाली करणेष्वपि दुर्धरा सहसा ॥' उद्दीपकत्वेन तच्छब्दस्य श्रोतुमशक्यत्वात् इत्यर्थः ॥ प्रकृतिश्लेषो यथा ममैव
'गरयति वलयादीनिन्द्रियार्थीश्च सर्वा___ न्दवयति हिमरश्मि जीविताशां च सद्यः । नयनमपि मुहूर्त वर्षयत्यञ्जसा यं
दयिततमवियोगः स्मेरपङ्केरुहाक्ष्याः ।।' अत्र गुरून् करोति गरवत्करोतीत्यर्थद्वयेऽपि गरयतीति । दववत्करोति दूरीकरोतीत्यर्थद्वयेऽपि च दवयतीति । दृष्टिवत्करोति वर्षवत्करोतीत्यर्थद्वये च वर्षयतीति रूपं समानम् ॥ प्रत्ययश्लेषो यथा ममैव'मानभारमवलम्ब्य पुरा या ग्रन्थिभिर्निबिडिता किल तस्थौ ।
प्रेयसीक्षणपथं गतमात्रे सोल्ललास सखिनीविरहं च ॥' १. 'ताम्राधरा विदूरे(ऽपि दूरे) कामं मे सुरभि(वि)स्तारयति ।
सरसापि द्विरेफाली करणेष्वपि दुर्धरा सहसा ॥' इति च्छाया.