________________
२४२ . काव्यमाला । ___ अयं च श्लेषो द्विधा-सभङ्गोऽभङ्गश्च । अभिन्नानुपूर्वीकशब्दप्रतिसंधानबोध्यार्थान्तरकत्वं सभङ्गत्वम् । समानानुपूर्वीकशब्दप्रतिसंधानबोध्यार्थान्तरकत्वमभङ्गत्वम् ॥ आद्यश्चाष्टधा-वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनभेदात् ॥ तत्र वर्णश्लेषो यथा-- 'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥' .. ६, अत्र विधिविधुशब्दयोर्विधाविति रूपादिकारोकारयोः श्लेषः ॥ पदश्लेषो यथा'संनद्धे भगदत्तशङ्खनिनदत्रस्यत्रिलोके बले
ताम्यद्दिक्करिकुम्भकर्णपृतनाप्रारब्धकोलाहले । तीक्ष्णद्रोणपतत्रिपीतसुभटप्रत्यग्ररक्तासवं
प्रावर्तिष्ट दिवोऽतिथीकृतमहायोधं महायोधनम् ॥ २: ३.० अत्र रामायणपक्षे-संनद्धा ये इभगा हस्त्यारोहास्तैर्दत्तो यः शङ्खनिनदः इति । भारतपक्षे-संनद्धे इति बलविशेषणम् । भगदत्तो राजविशेषो भारतप्रसिद्धः । तच्छवेत्यादि ॥ लिङ्गश्लेषो यथा मम'उन्निद्राजपरिष्कृतप्रवरदोःप्रवीभवदैवत
श्रेणीमौलितटावघट्टितमणिज्योत्स्नासमुल्लासिपात् । उन्मीलनसारसंततिसदृक्फुल्लारविन्दाभट्ट
ग्रूपं कैटभभेदिनो मदनजिद्वा चन्द्रिका सावतु ॥' अत्र दोरित्यादिरूपं क्लीबपुंस्त्रीलिङ्गेषु समानम् । लिङ्गमपि प्रातिपदि. कार्थ इति पक्षणेदमुक्तम् ॥
१. 'प्रोत्ताम्यत्करि' ख.