________________
अलंकारकौस्तुभः।
२४१
श्लेषमाह
उभयविशेष्यान्वितयोरेकेन प्रोक्तिरर्थयोः श्लेषः। उभयपदमेकभिन्नपरम् ॥ तत्र द्वयोरपि विशेष्ययोः प्रकृतत्वे यथा'गतेषु सैन्येषु सुशर्महेतोः सुलब्धचिह्नः सुजयोत्तरश्रीः ।
हरेस्तनूजः प्रतिपन्नकालं नृपप्रियान्वेषणतत्परोऽभूत् ॥' अत्र हनूमदर्जुनयोरुभयोरप्युभयकथायां प्रकृतत्वम् ।। यथा वा
'देवः पतिर्विदुषि नैव धराजगत्या ५
निर्णीयते न किमु न वियते भवत्या । नायं नलः खलु तवातिमहानलाभो
यद्येनमुज्झसि वरः कतरः परस्ते ॥' अत्रेन्द्रादीनां नलस्य च प्रकृतत्वम् ॥ द्वयोरप्रकृतत्वे यथा'आज्ञया च पितुरज्ञभिया च श्रीरहीयत महीप्रभवा द्विः ।
लचितश्च भवता किमु न द्विर्वारिराशिरुदकाङ्कगलङ्कः ॥' अत्र श्रीरामस्तुतौ स(रा)मवैरिणोर्द्वयोरप्यप्रकृतत्वम् ॥ यथा वा
'हिममुक्तचन्द्ररुचिरः सपद्मको
मदयन्द्विजाञ्जनितमीनकेतनः । अभवत्प्रसाधितसुरो महोत्सवः
प्रमदाजनस्य स चिराय माधवः ॥' अत्र भगवतो वसन्तादेश्च प्रकृताप्रकृतत्वे ॥ १. 'त्रिविधश्चायम्-द्वयोः प्रकृतत्वे, द्वयोरप्रकृतत्वे, अन्यतरस्यैव प्रकृतत्वे चेति । पुनद्विविधः-शब्दश्लेषः, अर्थश्लेषश्चेति । शब्दश्लेषोऽपि द्विविधः-पदभेदे तदैक्ये च । आद्यः खण्डश्लेषः' इति गीयते । तत्र शब्दश्लेषः शब्दालंकारः, अर्थश्लेषस्त्वर्थालंकार इति काव्यप्रदीपः । द्वयमपि शब्दालंकार इति केचित् । द्वयमप्यर्थालंकार इत्यलंकारसर्व. खकारः' इत्यलंकारमुक्तावल्यामधिकम्.