________________
२४०
। काव्यमाला।
नह्ययं निश्चयान्तःसंदेहः। तत्र संशयनिश्चययोः सामानाधिकरण्यात् । इह तु भ्रमरादेन्तिः नायिकादेनिश्चय इति वैयधिकरण्यात् ॥ अथ कथंचिदेव संशयनिश्चययोः सामानाधिकरण्यं विवक्षितम् । तथा च भ्रमरनिष्ठसंशयज्ञानान्नायकेऽपि संदेहोऽस्त्येव, ज्ञानज्ञानस्य बाधकं विना तज्ज्ञानविषयविषयकत्वनियमादिति चेन्न । तथापि चात्र भ्रमरादेरपि संदेहः । समकोटिकज्ञानस्यैव संशयत्वात् । अत्र च तथात्वे मुखसमीपगमनादिवर्णनानुपपत्तेः । तर्हि भ्रान्तिमानेवास्त्विति चेत्, न। भ्रमरादेर्भ्रान्तिसत्त्वेऽपि इह चमत्कारानाधायकतयानलंकारत्वात् । तादृशनायकोक्तेरेव चमत्कारकत्वात् । भ्रमरप्रान्त्याइरविवक्षायामपि नायिकाप्रतीत्यर्थमपि एतादृशोक्तिसंभवाच्च । न च रूपकध्वनिः, मुखस्य कमलत्वेनानिर्धारणात् । नाप्यपहृतिः प्रस्तुतस्य निषेधाभावात् । अतः पृथगेवायं चिरंतनोक्तालंकारेभ्य इत्याहुः ॥ जयदेवस्तु
'भ्रान्तापहुतिरन्यस्य शङ्कायां भ्रान्तिवारणे ।
तापं करोति सोत्कण्ठं ज्वरः किं न सखि स्मरः ॥' इति तत्त्वोत्तया भ्रान्तिवारणे कृते भ्रान्तापगुतिरित्याह ॥ ___ दीक्षिता अपि संभवद्भान्तिपूर्विकायामपगुताविदमुदाहरणम् । कल्पितभ्रान्तिपूर्विकायां तु
'जटा नेयं वेणी कृतकचकलापो न गरलं
गले कस्तूरीयं शिरसि शशिरेखा न कुसुमम् । इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा
पुरारातिक्रोधात्कुसुमशर किं मां प्रहरसि ॥ अत्र कल्पितभ्रान्तिर्जटा नेयमित्यादिनिषेधमात्रोन्नेया पूर्ववत्प्रश्नाभावादित्याहुः।
इत्यलंकारकौस्तुभेऽपहुतिनिरूपणम् ।
१. 'नात्र' ख.