________________
२३९
अलंकारकौस्तुभः। कोच्छेदप्रसङ्गात् । न च-तत्र मुखत्वसाधारण्येन चन्द्राभेदानुभवान्न मुखनिषेधः-इति वाच्यम् । अत्रापि साधारणपुरुषत्वसामानाधिकरण्येन पुण्डरीकाक्षारोपतादात्म्यसंभवाद्रूपकध्वनित्वस्यैव खीकर्तुमुचितत्वात् ॥ न च पूर्वार्धे मास्त्वपह्नुतिः । तथापि चक्रादिदूरीकरणेन नायं पुण्डरीकाक्ष इति निषेधस्य पुष्पचापलिखनेनायं काम इत्यारोपस्य च व्यञ्जयितुं शक्यतयोत्तरार्ध एवापद्दतिध्वनिरस्त्विति वाच्यम् । पुण्डरीकाक्षस्य वर्ण्यत्वाभावेन तन्निषेधस्यापहृत्यघटकत्वात् । प्रकृतपदस्यारोपविषयपरतायास्त्वयैव व्याख्यानात् । 'प्रसक्तयत्किंचिद्वस्तुनिषेधसामानाधिकरण्येन क्रियमाणवस्त्वन्तरारोपमेवापहृतित्वम्' इति लक्षणकरणे तु युक्तमेवापढुतित्वमित्याहुः ।
वस्तुतस्तु-मुखं चन्द्रः इत्यादौ मुखत्वं धर्मितावच्छेदकीकृत्य चन्द्रतादात्म्यारोपस्यानुभवसाक्षिकत्वादभ्युपगमेऽपि प्रकृते पुण्डरीकाक्षभेदव्याप्यचक्राद्यभावस्य साधारणपुरुषधर्मस्य च चक्रादिभिरपसारणे साधारणपुरुपनिषेधमन्तरेण पुण्डरीकाक्षतादात्म्यस्य व्यञ्जयितुमशक्यत्वात्तन्निषेध आवश्यक इति दीक्षिताशयः ॥ साहित्यदर्पणकारास्तु
'अन्यं निषिध्य प्रकृतस्थापनं निश्चयः पुनः ।' आरोप्यमाणं निषिध्य प्रकृतस्योपमेयस्य स्थापनं निश्चयालंकारः । यथा
'वदनमिदं न सरोज नेत्रे नेन्दीवरे एते ।
इह सविधे मुग्धदृशो मधुकर मुदा न परिभ्राम्य ॥' यथा वा'हृदि बिसलताहारो नायं भुजंगमनायकः
कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः । मलयजरजो नेदं भस्म प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥'