SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २३८ काव्यमाला । 'न विषं विषमित्याहुर्ब्रह्मखं विषमुच्यते । ' इत्यादौ तदङ्गीकारादिति ॥ यत्तु — क्वचिन्निषेधपूर्वक आरोपः कचित्त्वारोपपूर्वको निषेध इति भेदवर्णनं तच्चमत्कारविशेषानुपलम्भादिहोपेक्षितम् । , अपहुतिध्वनिर्यथा मम - 'त्वत्प्रत्यनीकनरनायकनायिकानां हृद्भिर्वियोगदहनज्वरदयमानैः । प्राणावसानमिलितैर्द्वतकिंचिदंश - पीयूषमिन्दुमबुधाः सकलङ्कमाहुः ॥' अत्र 'नायं कलङ्कः, किं तु तप्तमनोयोगद्रुतपीयुषच्छिद्रम्' इति प्रतीतिः । चित्रमीमांसायां तु — 'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं विलिखति सुपर्णीसुतमपि । अपि विद्यत्पाणिस्त्वरितमपसृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ॥ अत्र 'अयं न साधारणः पुरुषः, किं तु नारायणः' इति चक्रादिलिखनेन व्यज्यते । अन्यथा तु तस्याप्येतादृशरूपविरहेण नायं नारायणः किंतु काम इति पौष्पचापलिखनेन व्यञ्जितमित्युदाहृतम् ॥ रसगङ्गाधरकृतस्तु—उपमेयनिषेध उपमानारोपश्चेत्यपहुतेर्भागद्वयम् । तत्र चक्रादिलिखनेन 'पुण्डरीकाक्षोऽयम्' इत्यारोपभाग एव व्यञ्जयितुं शक्यते, न तु 'नायं साधारणः पुरुषः' इत्युपमेयनिषेधभागोऽपि । चक्रादिलिखनस्य पुण्डरीकाक्षारोपमात्रव्यञ्जकतया निषेधाभिव्यञ्जने सामर्थ्याभावात् । न च – पुरुषतादात्म्यनिषेधं विना नारायणतादात्म्यारोपानुपपत्त्या निषेधोऽपि व्यज्यते — इति वाच्यम् । 'मुखं चन्द्र:' इत्यादावपि मुखनिषेधमन्तरेण चन्द्राभेदारोपानुपपत्त्या तत्र मुखनिषेधाभ्युपगमे रूप १. 'त्याहुः' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy