________________
अलंकारकौस्तुभः ।
२३७ 'स्मितं नैतत्किं तु प्रकृतिरमणीयं विकसितं ___ मुखं ब्रूते मूढः कुसुममिदमुद्यत्परिमलम् । स्तनद्वन्द्वं मिथ्या कनकनिभमेतत्फलयुगं
लता सेयं रम्या भ्रमरकुलनम्या न रमणी ॥' अत्र स्मितापह्नवो मुखापह्नवानुग्राहकः । मुखस्तनापह्नवौ तु नायिकापह्नवानुग्राहकावित्यभिप्रायः सावयवापहृतावुदाहरतामवसेयः । मालारूपा यथा'क्कापि क्षीरनिधिच्छलात्वचिदपि प्रोत्फुल्लकुन्दच्छला
त्कुत्रापीन्द्रगजच्छलात्वचिदपि प्रालेयरश्मिच्छलात् । कुत्रापि स्मरवैरिदेहमिषतः कुत्रापि शेषच्छला
त्रैलोक्यं हिमतुल्यकीर्तिरटति श्रीवाजचन्द्रप्रभोः ॥' अत्र बहून्निषिध्यैकस्यारोपः । एकं निषिध्य बहूनामारोपो यथा'नारीणामनुरञ्जनानुनयनात्पञ्चाशुगस्याशुगा
शत्रूणामवधीरणापकरणव्यापारतः पाण्डवान् । कामानामनुपूरणात्सुरतरून्भीतार्तसंजीवना
प्राणान्पाणिरयं बिभर्ति नृपतेः पञ्चाङ्गुलीव्याजतः ॥' अत्र वाजचन्द्राङ्गुलिनिषेधपूर्वकं तत्र कामबाणाद्यभेदारोपः । यत्तु
'अन्यत्र तस्यारोपार्थः पर्यस्तापहुतिस्तु सा।
नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥' इति ॥ तत्राहुः
___'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपढुतिः ।' इत्यपगुतिसामान्यलक्षणानाक्रान्तत्वान्नायमपहृतिभेदः । किं तु उपमेयोपमानतावच्छेदकयोः सामानाधिकरण्यस्य भासमानत्वाद्रूपकमेव ढढारोपमेतत् ।
१. 'मानतद्रूपक' ख.