________________
२३६
काव्यमाला |
'कैसेसु बलामोडिअ तेण समरम्मि जअसिरी गहिआ । जह कन्दराहिं विहुरा तस्स दर्द कण्ठअम्मि संठविआ ||' इत्यत्र साम्याभावेऽपि न पलाय्य गतास्तद्वैरिणः, अपि तु ततः पराभवं संभाव्य कंदरा एव न तान्न त्यजन्तीत्यपहुतिर्व्यज्यते इति काव्यप्रका - शकारेण तदभ्युपगमादित्याहुः ॥
ते शाब्दे प्रकृत निषेधे यथा मम - 'नेयं मेघघटा परंतु विरहोद्दामाग्निधूमावली
न भ्राभ्यद्विसकण्ठिकावलिरसौ बन्धस्तु पान्थात्मनाम् । नैतानि स्तनितानि किं तु मदनस्याध्वन्यनिर्भर्त्सनाः केतक्या न रजांसि दग्धपथिकत्रातीयभस्मानि तु ॥' इह प्रकृतान्मेघघटादीन्निषिध्य धूमादिरेव तत्स्थानेऽभिषिक्तः ॥ आर्थिके यथा
‘विनिद्रपुष्पालिगतालिकैतवान्मृगाङ्कचूडामणिवर्जनार्जितम् । दधानमाशासु चरिष्णु दुर्यशः स कौतुकी तत्र ददर्श केतकम् ॥' अत्र हि भ्रमरे व्याजत्वोक्त्या नैते भ्रमराः किं तु दुर्यशः इति भ्रमरनिषेधप्रतीतिरर्थात् । न हि भ्रमराणां सत्यत्वविवक्षायां कैतवोक्तिर्घटते ॥
सावयवा यथा मम -
'नेदं कूजितमस्ति कार्मुककृतं किं तूर्जितं गर्जितं नैवजिगरा जिरीजिवदने, किं तूमधाराततिः । नेयं सायककाञ्चनद्युतिघटा, सौदामिनी किं त्वसौ
नायं वीरकुलाग्रणीरुदयते, किं त्वेष धाराधरः ॥' अत्रापह्नवान्तराणां वीरापह्नवानुग्राहकत्वात्सावयवत्वम् ॥ क्वचिदपह्नवान्तरानुगृहीतस्यापह्नवस्यापह्नवान्तरानुग्राहकत्वम् । यथा
-
१. 'केशेषु बलात्कारेण तेन समरे जयश्रीर्गृहीता । यथा कन्दराभिर्विधुरास्तस्य दृ कण्ठे संस्थापिताः ॥' इति च्छाया. २. 'निषेधश्च द्विविधः, शाब्द आर्थश्च' इत्यलंका मुक्तावल्यामधिकम्. ३. अजिह्मगराजिर्बाणपतिः. ४. आजिवदने संग्राममुखे.