________________
२३६
अलंकारकौस्तुभः। व्युत्पत्तिनियन्त्रितत्वेनोपमानप्रतियोगिक एवाभेदो विषय इत्युक्तम् । तत्र तु परस्परभेदावगाहने न किंचिदस्ति बाधकम् । नाप्युपमानप्रतियोगिकाभेदमानं रूपकनियतम् । मुखचन्द्र इत्यादिसमासस्थले तदभावात् । न च तत्रापि मुखनिष्ठाभेद एव संसर्ग इति वाच्यम् । तस्य प्रथममेव निरस्तत्वात् । किं च शाब्दबोधे चन्द्रप्रतियोगिकाभेदावगाहनेऽपि मानसगम्यपरस्पराभेदमादाय तत्रापि रूपकं न स्यात् । न हि शाब्द एवाभेदबोधोऽलंकारत्वप्रयोजक इति शक्यते वक्तुम्, निदर्शनास्थले आर्थाभेदबोधस्यालंकारत्वप्रयोजकतायास्त्वयैव स्वीकारात् ॥ एवं च मानसाभेदबोधस्योभयत्रैव संभवान्निदर्शना रूपकं चेति दुःकर एकशेषः स्यात् । तस्मात् 'त्वत्पादनखरत्नानाम्' इत्यादौ निदर्शनैवेति वाक्यार्थरूपकं निर्मूलमिति दिक् ॥
इत्यलंकारकौस्तुभे रूपकनिरूपणम् । अपहुतिं लक्षयति
प्रकृतं निषिध्य भिन्नात्मतया प्रोक्तावपतिः कथिता । यत्र प्रकृतमुपमेयं कथंचिच्छब्दतोऽर्थतो वा निषिध्य तत्सदृशाप्रकृतार्थताद्रूप्येण वर्ण्यते साप[तिरित्यर्थः । रूपकातिव्याप्तिवारणाय निषिध्येत्यन्तम् । तत्र तु मुखे चन्द्रताद्रूप्यवर्णनेऽपि न मुखनिषेधपूर्वकं तदिति न दोषः । अत्र केवित्-सादृश्यस्थल एवापहृतिः ।
'न पञ्चेषुः स्मरस्तस्य सहस्रं पत्रिणां यतः ।' इत्यादौ तु नापबुतिः । किं तु 'प्रकृतस्य यदन्यत्वम्' इत्येवंरूपातिशयोक्तिरित्याहुः ॥ अन्ये तु
गोपनीयं कमप्यर्थ द्योतयित्वा कथंचन ।
यदि श्लेषेण्न्यथा वा प्रथयेत्सा त्वपहृतिः ॥' इति साहित्यदर्पणोक्तदिशा किंचिदपहृत्य कस्यचिद्दर्शनमपहुतिः ।
१. 'रूपकत्वं' ख. २. 'दुष्प्रतिकर' स्व. ३. 'प्रस्तुतस्य' ख. ४. 'ण काका' ख.