________________
२३४
काव्यमाला।
ल्पितस्य ताद्रूप्यस्य रूपकत्वाभ्युपगमे तदमूलकानां स्मृत्यादीनामपि रूपकत्वापत्तिरिति रूपकदूषणं संबन्धान्तरप्रयुक्ततादात्म्यविवक्षायामपि रूपकमिति रत्नाकरमधिकृत्य स्वयमेवाभ्यधायि ॥ किं च रूपकत्वावच्छेदेन न श्रौताभेद उपजीव्यः अभेदस्य विशेष्यतायां तदभावात् । तथा च भवदीयमेवोदाहरणम्'कैशोरे वयसि क्रमेण तनुतामायाति तस्याः स्तना
वागामिन्यखिलेश्वरे रतिपतौ बाल्ये मनागञ्चति । आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहां
किंचासीदमृतस्य भेदविगमः साचिस्मिते तात्त्विकः ॥' अवान्तरधर्मावच्छेदेन तदुपजीवकत्वं तु निदर्शनायामपि समानम् ॥ अथ-अभेदारोपपदेनाभेदसंसर्गकाभेदविशेष्यकोभयारोपसंग्रहाद्रूपकत्वावच्छेदेन तदुपजीवकत्वमक्षतम्-इति चेत् । तथापि निदर्शनात्वसामानाधिकरण्येन रूपकत्वावच्छेदेन चाभेदारोपोपजीवकत्वमिति विशेषस्याप्रयोजकत्वात् । 'मुखं चन्द्रतादात्म्यवत्' इत्यादौ च तदभावात् । अभेदविषयकारोपत्वेन तदनुगमेऽपि तद्वृत्त्यसाधारणविषयकारोपोपजीवकत्वं निदर्शनात्वावच्छेदेनास्तीत्यस्याप्यनुगमस्य कर्तुं शक्यत्वात् ॥ __ यदपि निदर्शनायां तादृशपदार्थयोः परस्पराभेदमात्रं शरीरम्, रूपकस्य तृपमेयगत उपमानाभेद इति, तत्तुच्छम् । तथा हि-त्वन्मते विशिष्टवाक्यार्थरूपके तद्भटकपदार्थानामभेदस्यार्थगम्यतया तत्र रूपकत्वानापत्तेः । तत्राभेदस्य मानसगम्यतया परस्परप्रतियोगिकत्वेन परस्परानुयोगिकत्वेन च विषयीकरणे बाधकाभावात् । 'मुखं चन्द्रः' इत्यादौ तु शाब्दबोधस्य
पाधिसामानाधिकरण्येन च निदर्शनायामभेदारोपस्यापेक्षितत्वात् । तस्य रूपकपक्षपातित्वमेवेत्याशयः । अभेदैः
१. क-पुस्तके इदं नास्ति.
१. इतः परं टीका पुस्तकद्वयेऽपि नोपलब्धा. न ज्ञायते 'इयत्येव रचिता भवेत् , अग्रेऽपि' इति.