________________
२३३
अलंकारकौस्तुभः । अथ तवाप्यहृद्येनापि धर्मेण तदभेदारोपः कथमिति चेत् । न हि वयं तत्राभेदारोपो न संभवतीति ब्रूमः । अपि तु तस्यालंकारत्वाभावमात्रमिति दोषाभावात् । ततश्चाभेदारोपमात्रस्य चमत्कारजनकत्वाभावात्कचिद्वैयर्थ्यमादाय पर्यवसानम्, कचिदन्यथेत्यन्यदेतत् । ततश्च पाण्डुनखमार्जने पाण्डुरीकरणाभेदारोपस्य नखोत्कर्षापर्यवसानस्यात्राभेदस्यालंकारत्वमुचितम् । किं च
त्वत्पादनखरत्नानि यो रञ्जयति यावकैः ।' इति पाठेऽपि कथं न रूपकम् । कोरभेदस्य तत्रापि प्रतीतेः ॥ यत्तुक्रिययोरभेदस्य शाब्दत्वात्तस्यैव सर्वभरसहिष्णुत्वान्निदर्शनैवेति, तदसत् । कोरभेदेन रूपकत्वापत्तेरपरिहारात् । यदपि 'मुखं चन्द्रः' इत्यादौ श्रौताभेदारोपस्य रूपकजीवातुत्वस्य कृप्तत्वादिहापि तथा । अभेदारोपस्य निदर्शनाजीवातुत्वं तु न संभवति । 'इन्दुशोभा वहत्यास्यम्' इति निदर्शनायामभेदारोपाभावादिति, तदप्यसत् । अभेदारोपमात्रस्य रूपककल्पकत्वाभावात् । कथमन्यथा सादृश्यामूलकस्यापि कार्यकारणतादीनां क
त्रादुक्तम् । न त्वेतदेव रूपकवैलक्षण्यसाधकम् , येनैव तद्यभिचारेण वाक्यार्थ निदर्शनास्थलेऽपि वाक्यार्थरूपकमापाद्यतेत्यर्थः ॥ तदेतावता एतादृशाभेदरोपस्यालंकारत्वाभाव उक्तः । अलंकारत्वं न निर्वहतीत्युक्तेः । तत्राभेदारोप एव निषिध्यत इति भ्रान्ति दर्शयति-अथेति । न हीति । येनात्र निदर्शनात्वमप्यभेदारोपमूलकं न स्यादिति दोषः प्रसज्येतेति भावः । किं त्विति । तथा चाभेदमात्रस्य चमत्कारजनकत्वविरहात्तावन्मात्रशरीरं रूपकमत्र नालंकारमर्थः ॥ यत्तु पूर्व पाठान्तरेण त्वत्पादनखरत्नेति श्लोक एव निदर्शनावकाशो दर्शितस्तत्खण्डयति-किं चेति । कोरिति । यत्तच्छब्दपरामृष्टयोर्मार्जनपाण्डुरीकरणकोरित्यर्थः । अवान्तरविचारमुक्त्वा वाक्यार्थरूपकखीकर्तृणां मूलयुक्ति खण्डयितुमुपन्यस्यति-यदपीति । जीवातुत्वति । तल्लक्षणत्वेत्यर्थः । ननूदाहृतस्थले निदर्शनाखीकारात्तस्या अपि अभेदारोपनिबन्धनत्वानेदं वैधर्म्यमित्यत आह-निदर्शनाजीवातुत्वं विति। निदर्शनात्वावच्छेदेनोपजी•व्यत्वादित्यर्थः । व्यभिचारमाह-इन्दुशोभामिति । तत्राश्रयत्वादिनैव शोभादेर्मुखादावारोपादिति भावः । एवं चालंकारसाक्षाद्विभाजकोपाध्यवच्छेदेन रूपके तादृशो१. 'किं तु' इति टीकासंमतपाठः.