________________
२३२
काव्यमाला।
'क्क सूर्यप्रभवो वंशः क चाल्पविषया मतिः।
तितीर्दुस्तरं मोहादुडुपेनास्मि सागरम् ।।' 'सोऽयं कुरङ्गैः कचग्रहः केसरिणः, भेकैः करपातः कालसर्पस्य, वत्सकैर्बन्दीग्रहो व्याघ्रस्य, अलगर्दैर्गलाक्षेपो गरुडस्य, दारुभिर्दाहादेशो दहनस्य, तिमिरैस्तिरस्कारो रवेः, यो मौरवाणां मालवैः परिभवः । इत्यादौ च ॥ ननु नायं नियमः'प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
सुधासूतेश्चन्द्रोपलजललवैरर्थघटना। खकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥' 'वियोगे गौडनारीणां यो गण्डतलपाण्डिमा ।
अदृश्यत स खजूरीमञ्जरीगर्भरेणुषु ।' इत्यादौ च तदभावादिति चेत् ॥ किं ततः । न ह्यभेदारोपमात्रेण रूपकालंकारत्वं निर्वहतीत्युक्तत्वात् । अन्यथा घटः पटः इत्यादेरपि तत्त्वापत्तेः ॥
वेत्यर्थः । एवं क्व सूर्येत्यादावपि बोध्यम् । सोऽयं कुरङ्गैरिति ॥ हर्षचरिते राज्य. वर्धनस्योक्तिः । सर्वेषामपि मालवैः परिभव इत्यत्राभेदारोपः ॥ एतावन्मात्रमेव वैषम्यबीजमिति भ्रमेण तत्र व्यभिचारमुद्भावयति-नन्विति । नायमिति । अभेदप्रतियोग्यप्रसिद्धिरूप इत्यर्थः । प्रदीपेति । सौन्दर्यलहयाँ भगवत्पादानामुक्तिः । अत्र नीराञ्जनादीनां स्वतः प्रसिद्धत्वेन संभवित्वमेवेत्यर्थः । अत्र वाक्यार्थ निदर्शनायामेवा. भेदप्रतियोगिनो वाक्यार्थस्याप्रसिद्धत्वमित्येव विवक्षितम् । 'वियोगे गौडनारीणाम्' इति तु पदार्थ निदर्शनैवेति न व्यभिचारः । वाक्यार्थनिदर्शनातद्रपकयोरेवान वैध
Hस्य प्रस्तुतत्वात् । प्रदीपेत्यत्र तु यद्यपि वाक्यार्थ निदर्शनैव तथापि तद्धर्माभाववति तत्संबन्धजनका एव नीराजनादयोऽभिमताः । तथैव प्रकृतोत्कर्षसिद्धेः । सूर्यनीराजनादयश्च सूर्यादावालोकाद्यभाववति आलोकसंबन्धादिजनकत्वविशिष्टा अप्रसिद्धा एवेति न व्यभिचार इति समाधातुं शक्यते । तथापि निदर्शनायामभेदप्रतियोगिनो वाक्यार्थस्य प्रसिद्धेरप्यभ्युपगमस्य सर्वप्रसिद्धत्वात् । तदपहायान्यदेवाह-किं तत इति । न हीति । अत्र रूपकत्वाभावे पूर्वमेव युक्तिरुक्ता । इदं त्ववान्तरवैधर्म्यसंभवमा