________________
अलंकारकौस्तुभः ।
1
च्छेदकधर्माभेदस्य च रूपकौपयिकत्वात् । किं च । 'त्वत्पादनखरत्नानाम्' इत्यत्रापि न रूपकसंभवः । तथा हि नखानां स्वत एव नैर्मल्यादिगुणयोगात्तत्र यावकसंबन्धो निरर्थक इत्यत्रास्य तात्पर्यम् । तच्चालक्तककरणकत्वन्नकर्मकमार्जनं चन्दनकरणकचन्द्रकर्मकपाण्डुरीकरणाभिन्नमिति बोधेन न सिध्यति । मार्जनस्य निषेधप्रतियोगितया विवक्षितत्वेन तस्योपमेयत्वासंभवाच्च । एतादृशभेदारोपस्य सादृश्यामूलकतयालंकारकत्वाभावाच्च । यत्किंचिद्धर्मघटितसादृश्यस्यालंकारतायामप्रयोजकत्वाच्च । तस्माज्जन्यतासंबन्धेन पावकाभावो नखशोभायां प्रतिपाद्यः । तथा तेनैव संबन्धेन श्रीखण्डलेपाभावश्चन्द्रनिष्ठपाण्डुरतायाम् । तेन च निदर्शनायां सर्वत्राभेदप्रतियोग्यनुयोगिनोर्वाक्यार्थयोर्मध्येऽभेदप्रतियोगिनो वाक्यार्थ
स्याप्रसिद्धत्वनियम एव, रूपके तु न तथा । तद्यथा
'यदा तु सौम्यता सेयं पूर्णेन्दोरकलङ्कता ।'
-
२३१
किं चेति । तात्पर्यमिति । तथा शाब्दबोधाभावादिति भावः ॥ न सिध्यतीति । न च वाक्यार्थयोरभेदारोपस्य निदर्शनानिर्वाहार्थं त्वयापि वाच्यत्वात्कथमेतद्बोधाक्षेप इति वाच्यम् । न ह्यभेदारोपस्योपमाक्षेपो येनोक्तदोषः स्यात् । किंतु तस्यालंकारत्वविरहमात्रे तात्पर्यम् । इदं चाग्रे स्वयमेव विशदीकरिष्यति ॥ किंच यत्र धर्मिणः किंचित्प्रतियोगिकाभेदवत्ताप्रयुक्तोत्कर्षविवक्षा तत्र रूपकालंकारः । अत्र तु मार्जनस्य यथोक्तपाण्डुरीकरणाभेदप्रयुक्तोत्कर्षो न विवक्षित इत्याह- मार्जनस्येति । यदुत्कर्षे उक्तवाक्यतात्पर्यं तस्यैवोपमेयत्वात् । तादृशाश्चात्र नखा एव न तु मार्जनमित्यर्थः । ननु परम्परया मार्जनधर्मिक पाण्डुरीकरणप्रतियोगिकाभेदबोधस्यापि नखोत्कर्षपर्यवसायित्वमस्त्येवेति नोक्तदोष इत्याह- एतादृशेति । ननु वैयर्थ्यप्रतियोगित्वरूपधर्मप्रयोज्य एवोभयोस्तादात्म्यारोपः आरोप्यमात्रे सादृश्यस्य हेतुत्वादित्याह - यत्किंचि दिति । स्वाश्रयोत्कर्षपर्यवसायिन एवाभेदस्यालंकारत्वात् । वैयर्थ्यप्रतियोगित्वरूपधर्ममूलकतादात्म्यारोपस्य च मार्जनापकर्ष एव पर्यवसानादिति भावः । सादृश्यस्येति । यथा तादृशसादृश्यं नोपमा तथा तन्मूलकतादात्म्यारोपो न रूपकमपीत्यर्थः । उभयोर्वैयर्थ्यमेव दर्शयति — तस्मादिति । मूलयुक्तिमुक्त्वावान्तरयुक्तिमाह - तेन चेति । अप्रसिद्धत्वेति । यथा प्रकृत एव चन्द्रस्य चन्दनजन्यपाण्डुरीकरणमप्रसिद्धमित्यर्थः । रूपकत्वेति । मुखं चन्द्र इत्यादौ चन्द्रादेः प्रसिद्धत्वादिति भावः । निदर्शनान्तरे अभेदप्रतियोग्य प्रसिद्धिं दर्शयति - तद्यथेति । अत्र पूर्णेन्दोरकलङ्कत्वमप्रसिद्धमे