________________
२३०
काव्यमाला । 'कन्दर्पद्विपकर्णकम्बुमलिनैर्दानाम्बुभिर्लाञ्छितं ___ संलमाञ्जनपुञ्जकालिमकलं गण्डोपधानं रतेः । व्योमानोकहपुष्पगुच्छमतिभिः संछाद्यमानोदरं
पश्यैतच्छशिनः सुधासहचरं बिम्बं कलङ्काङ्कितम् ॥' इत्यत्र दानजलादिकलङ्कादीनां बिम्बप्रतिबिम्बभावस्वीकाराच्चेति ॥
अत्रेदं प्रतिभाति-उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दान्निश्चीयमानमुपमानतादात्म्यं रूपकमिति लक्षणं तावद्भवतैवोक्तम् । तत्र चोपमानोपमेयभावो भेदगर्भ एवावश्यं वाच्यः । अन्यथा 'चन्द्रचन्द्र-' इत्यादेरपि रूपकत्वापत्तेः । तथा च 'आत्मनोऽस्य तपोदानैः' इति श्लोके निर्मलीकरणक्षालनयोरभेदारोपो न रूपकं भवितुमर्हति । तयोर्भेदाभावात् । 'क्षल शौचे' इत्यनुशासनेन शौचमात्रे क्षालनपदशक्तेः। न च-तपोदानजन्यस्य सलिलजन्यस्य च शौचस्य भेद एवेति वाच्यम् । विशेष्याभेदे विशिष्टभेदस्य विशेषणभेद एव पर्यवसानात् । उपमानतावच्छेदकधर्मस्योपमेयताव
तिकूलत्वविरहेण तदनङ्गीकारस्यानुचितत्वादित्यर्थः ॥ ननु लक्ष्यानुरोधेन लक्षणप्रणयनं लक्ष्येषु च विषयो बिम्बविशिष्टो न दृश्यत इति तद्वहि वो युक्त एव । न च प्रकृतस्थले बिम्बवैशिष्टयमस्तीति वाच्यम् । अस्य रूपकत्वेन उभयसंप्रतिपत्तिविषयत्वविरहादित्याशङ्कय उभयाभिमतरूपकस्थल एव बिम्बवैशिष्टयं दर्शयति-कन्दर्पति । कलऋविशिष्टे चन्द्रे दानाम्बुलाञ्छितकम्बुतादात्म्यारोपादन विषयस्य बिम्बवैशिष्टयमस्त्येवेति भावः । स्वीकारादिति । अलंकारसर्वस्वविवरणकृतेत्यर्थः । ननु क्षालनपदस्य जलसंबन्धार्थकत्वात्कथं भेद इत्याशङ्कयाह-क्षल शौचे इतीति । विशेष्याभेद इति । स विशेषणे हीति न्यायेन दण्डिकुण्डलिचैत्रभेदस्य दण्डकुण्डलभेदपर्यवसानादित्यर्थः । तदुक्तं टीकाकारचरणैः-'देशकालौ कामं विभाव्येयातां न तु तदालिङ्गित. खभावः पद्मरागमणिः' इति ॥ नन्वौपाधिकभेदमादायैव तर्हि रूपकमस्तु इत्यत आहउपमानतेति । उपमानपदप्रवृत्तिनि मित्तेत्यर्थः । एवमुपमेयतावच्छेदकेत्यत्रापि मन्तव्यम् । अन्यथा तपोदानानामुपमेये, सलिलस्य चोपमाने, विशेषणत्वे, नोपमेयोपमानतावच्छेदकतया तद्भेदसत्त्वेन रूपकत्वापत्तेरपरिहारात् । नन्वेवमपि सर्वखवीरोदाहृतनिदर्शनास्थले रूपकमवारणीयमेव तत्र त्वदुक्तधर्मयो दसत्त्वादित्यत आह
१. 'निमित्तमित्यर्थः' ख.