________________
अलंकारकौस्तुभः।
२२९ अत्राप्याक्षिपन्ति—यद्यत्राप्यभेदारोपं श्रौतमपि रूपकसाधकमनादृत्य निदर्शनेत्युच्यते, तर्हि मुखं चन्द्र इत्यादावपि निदर्शनैव स्वीक्रियतामलं रूपकेण ॥ किं च । इयं पदार्थनिदर्शना, वाक्यार्थनिदर्शना वा । नाद्यः । विशिष्टार्थयोरेवात्राभेदप्रतीतेः, धर्म्यन्तरे पदार्थे तत्सदृशधर्म्यन्तरीयधर्मस्यारोपविरहाच्च ।
_ 'त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ।' इत्यादिवत् ॥ न द्वितीयः । वाक्यार्थरूपकोच्छेदापत्तेः । न चेष्टापत्तिः । . वाक्यार्थनिदर्शनोच्छेदेऽपीष्टापत्तेः कर्तुं शक्यतया विनिगमनाविरहात् ।
'त्वत्पादनखरत्नानि यो रञ्जयति यावकैः ।
इन्दं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥' इति निर्माणे वाक्यार्थनिदर्शनाविषयसत्त्वाच्च । न च रूपके बिम्बप्रतिबिम्बभावो नास्तीति वाच्यम् । मानाभावात् । त्यर्थः । न त्वनभ्युपगममात्रेण वाक्यार्थरूपकखण्डनं न सुघटमित्यभिप्रायवानाहअत्रापीति । ननु 'मुखं चन्द्रः' इत्यत्र निदर्शनालक्षणाभावाद्रूपकस्वीकारेऽपि प्रकृते निदर्शनालक्षणाक्रान्तत्वान तद्बहिर्भावः साधयितुं शक्यो विनिगमकाभावादित्यत आह-किं चेति । पदार्थेति । धर्म्यन्तरसंबन्धिधर्मस्य धर्म्यन्तरे आरोपरूपेत्यर्थः । वाक्यार्थेति । 'वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना।' इत्युक्तलक्षणेत्यर्थः । विशिष्टार्थयोरिति । पदार्थ निदर्शनायां तु शुद्धपदार्थस्यैवारोप इत्यर्थः । सोऽपि तत्र भेदेनारोप्यते । अत्र त्वभेदेनेति वैषम्यान्तरमपि दर्शयति-अभेदप्रतीतेरिति । तदेव स्पष्टयति-धर्म्यन्तरेति । तत्र हि नेत्रादिरूपे धर्मिणि तत्सदृशनीलाम्बुजन्मरूपस्य धर्मिणो लीलारूपो धर्म आरोप्यत इत्यर्थः । ननु वाक्यार्थरूपकोच्छेदापत्तिरिष्टापादनमेव तदर्थमेव तेषां प्रवृत्तत्वादित्यत आह-न चेष्टेति । यदि हि खानभिमतत्वमात्रेण वाक्यार्थरूपकोच्छेदस्त्वया इष्टापत्त्या परिहर्तव्यः । तदा मया वाक्यार्थरूपकमेव खीकृत्य वाक्यार्थनिदर्शनोच्छेदेऽपीष्टापत्तिरेव कर्तव्येति भावः । किं च मत्पक्षे वाक्यार्थनिदर्शनाया विषयान्तरसत्त्वान्नात्यन्तं तदुच्छेदः । तव तु वाक्यार्थरूपकस्य निरवकाशत्वापत्तिरेवेति बहूनामनुग्रहो न्याय्य इति न्यायेन मत्पक्ष एव प्रमाणवानित्याह-त्वत्पादेति । नन्वलक्तकचन्दनादीनां बिम्बप्रतिबिम्बभावसत्त्वादलक्तकमार्जनरूपस्य अलक्तकरूपबिम्बविशिष्टत्वात्कथमेतद्रूपकं तत्र बिम्बप्रतिबिम्बभावानङ्गीकारात् । अत एव बिम्बाविशिष्टे इति विषयविशेषणं चित्रमीमांसायां रूपकलक्षणे विहितमित्यत आह-न चेति ॥ मानाभावादिति । रूपकशरीरभूताभेदप्र