________________
२२८
काव्यमाला।
अत्रेदमप्यधिकं वदन्ति–वाक्यार्थे विषये वाक्यार्थान्तरारोपे विषये वाक्यार्थरूपकम् । यथा विशिष्टोपमायां विशेषणानामुपमानोपमेयभावोऽर्थगम्यस्तथात्रापि वाक्यार्थघटकपदार्थानां रूपकमर्थगम्यम् ॥ तद्यथा___'आत्मनोऽस्य तपोदानैर्निर्मलीकरणं हि यत् ।
क्षालनं भास्करस्येदं सरसैः सलिलोत्करैः ॥' न च ययोरिवादिशब्दप्रयोगे उपमानोपमेयभावः, तयोरेकत्रारोपे रूपकमिति नियमान्नेदं रूपकमिति वाच्यम् । अत्रापीवादिशब्दप्रयोगे उपमासंभवात् ॥
त्वयि कोपो महीपाल सुधांशाविव पावकः ।' इत्यत्रोपमा,
'त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः ।' इत्यत्र रूपकस्यापि स्वीकर्तुमुचितत्वात् । न चात्र व्यज्यमानोत्प्रेक्षेति वाच्यम् । अभेदनिश्चयात् । उत्प्रेक्षायां च निश्चयायोगात् । अन्यथा 'मुखं चन्द्रः' इत्यत्रापि तदापत्त्या रूपकविलयप्रसङ्गादिति ॥ । प्राचीनास्तु-ईदृशस्थले निदर्शनामेव खीकुर्वन्ति, न तु रूपकम् । तथा च सर्वस्वकारादयः
'त्वत्पादनखरक्तानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥' इति निदर्शनामुदाहृतवन्तः ॥
कैश्चिदुक्तं खण्डयितुमुपन्यस्यति-अत्रेदमपीति । अधिकमिति। प्राचीनेभ्योऽतिरिक्तमित्यर्थः । वाक्यार्थेति । एकस्मिन्वाक्यार्थे वाक्यार्थान्तरारोपो वाक्यार्थरूपकमित्यर्थः । विशिष्टोपमायामिति । 'पाण्ड्योऽयमंसार्पितलम्बहारः कुप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः स निर्झरोद्गार इवाद्रिराजः ॥' इत्यादौ विशेषणानां बिम्बप्रतिबिम्बभावापन्नहारनिर्झरादीनामुपमानोपमेयभावसादृश्यम् । एतच्च 'तेषां परस्परसादृश्यज्ञानेन विशिष्टोपमानिर्वाहः' इति पक्षे । तदभेदज्ञानस्यैव तथात्वमिति पक्षेऽपि सादृश्यमभेदरूपमेव ग्राह्यम् । तद्यथेति । तपोदानसलिलो. करादीनामर्थादभेदो गम्यत इत्यर्थः ॥ एतद्दूषयितुमाह-प्राचीनास्त्विति । निद. र्शनामिति । अन्यथा तत्र वाक्यार्थरूपकत्वस्यैवापत्त्या निदर्शनोदाहरणत्वं विरुध्येते.