________________
अलंकारकौस्तुभः ।
२२७
याभावेऽपि मानसतद्वृत्तित्वज्ञानेन साधारण्यमपि सर्वसंमतम् । अत्र तु शाब्दस्यैव सौजन्ये चन्द्रिकाभेदारोपस्य राज्ञि चन्द्रारोपसमर्थकत्वमिति दुराग्रहो नातीव भवतो हितहेतुः ॥ अथ राज्ञि चन्द्राभेदारोपोपपादकः सौजन्ये चन्द्रिकाप्रतियोगिकाभेद एवं साक्षादुच्यताम् अलं तदापेक्षकचन्द्रिकाविशेष्यकसौजन्याभेदारोपेणेति चेत्, सत्यम् । वाक्ये तथैव प्रयोगात् । समासे तु पूर्वनिपातनियमवशाच्चन्द्रमुखमिति प्रयोगो न संभवतीत्यत्र किं कुर्मः । अन्यथा वाक्य इव चन्द्रप्रतियोगि काभेदवन्मुखम् इति बोधजनकमुखचन्द्र इति समार्सेऽपि कथं न प्रयोगः इति प्रश्ने तवापि किमुत्तरमिति दिक् ।
वेऽपीति । चञ्चायाः स्त्रीलिङ्गत्वेन भिन्नलिङ्गावरुद्धत्वादित्यर्थः - पूर्वनिपातेति । तथा च तत्र चन्द्रमुखमिति प्रयोगे तस्यासाधुत्वापत्तिरित्यर्थः । एतादृशवैषम्यं तत्पक्षेऽपि सुसमाधानमेवेत्याह- अन्यथेति । इदं च सर्वे संभवादुक्तम् । वस्तुतस्तु सौजन्यचन्द्रिकेत शाब्दात्पूर्वं सौजन्याभिन्ना चन्द्रिकेति योग्यताज्ञान स्याहार्यस्यावश्यकतया तत्र च समानवित्तिवेधन्यायेन चन्द्रिकायां सौजन्याभेदस्याप्यवगाहनसंभवात्तत एव राज्ञि चन्द्राभेदारोपसिद्धिः ॥ अतः सौजन्यचन्द्रिकेति शाब्दाव्यवधानेनैव राज्ञि चन्द्रारोपस्यानुभविकत्वात्कथं तदुत्तरभाविबोधेन तत्समर्थनमित्यपि न । प्रत्यवस्थेयम् । अत एव तस्य शाब्दसमानकालीनतया रणेऽन्तःपुरत्वारोपो विद्वदित्यत्र हृदये सरस्त्वारोप 'आलानं जयकुञ्जरस्य' इत्यादौ जये कुञ्जरत्वारोप इत्यादिग्रन्थाः संगच्छन्ते । वस्तुतः संबन्धिनोरभेदबोधस्तदभेदबोधे हेतुरित्येव हेतुहेतुमद्भाव उचितः । परस्पराभेदबोधप्रतिबन्धक भेदज्ञानविघटकत्वाविशेषात् । न हि तत्संबन्धभेदबोधोऽपि खातन्त्र्येण तदभेदबोधे हेतुः, किंतु भेदज्ञाननिरासद्वारैवेति चन्द्रिकासौजन्ययोरभेदबुद्धया राजचन्द्रयोरभेदारोपः सिद्धयत्येवेति न प्रयासलेशोऽप्यादरणीयः । परंतु मुखचन्द्र इति समासगतरूपके चन्द्रप्रतियोगि काभेदवन्मुखमिति बोधानुरोधेन मानसज्ञानाश्रयणं तत्रैव युक्तम् । अत एव 'विद्यासंध्योदयोद्रेकादविद्यारजनीक्षये । यदुदेति नमस्तस्मै कस्मैचिद्विश्वचक्षुषे ॥' इति किरणावलिश्लोके, 'विद्याविद्ययोः संध्यारजनी निरूपणाद्रविरुदेता लभ्यते' इति प्रकाशग्रन्थे, 'विभक्तिपरिणामेन संध्यारजन्योर्विद्याविद्याभ्यां निरूपणात्' इति तद्विवरणमिश्रग्रन्थश्च मानसशाब्दबोधावभिसंधाय संगच्छते इति तदेतत्सर्वं मनसि कृत्वाह - दिगिति । वाक्यार्थरूपकं
१. 'नीभ्यां रूप' ख.