________________
२२६
काव्यमाला। वस्तुतस्तु-विशिष्टज्ञानस्य समूहालम्बनाद्भेदोऽन्यथैव, न तु संबन्धसंबन्धमानेनेति सिद्धान्तानुसारिणां नेयं शङ्का भवितुमर्हति इत्यन्यदेतत् । तथा च 'सौजन्याभिन्ना चन्द्रिका' इति शाब्दबोधे जाते तदुत्तरभाविना 'सौजन्यनिष्ठाभेदप्रतियोगिनी चन्द्रिका' इति बोधे राज्ञि चन्द्राभेदारोपः समर्थ्यत इत्यवश्यं वक्तव्यम् । तदपेक्षया तदुत्तरभाविना 'चन्द्रिकाप्रतियोगिकाभेदवत्सौजन्यम्' इति बोधेनैव तत्समर्थ्यताम्, अलमसांदृष्टिकार्थकल्पनया भङ्गयन्तरेणोक्तार्थकल्पनयेति ॥ अपि च बिम्बप्रतिबिम्बभावस्थले भिन्नानां धर्माणां परस्पराभेदस्य शाब्दबोधविषयत्वाभावेऽपि मानसाभेदारोपमाश्रित्य साधारणसंपत्त्योपमानुकूलत्वं तावदालंकारिकत्वावच्छेदेन खीकृतम् ॥ एवम्
'तं जगत्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम् ।' इत्यादौ चन्द्रमौलिभजनराहित्यस्य साधारणधर्मस्य चञ्चायां शाब्दान्व
स्वीकाराद्वैपरीत्यमित्यर्थः । न च विशेषणयोः संबन्धसंबन्धोऽपि भासत इत्येव तन्मतम् । न तु विशेष्यानुयोगिको विशेषणप्रतियोगिकश्चेत्येतावत्पर्यन्तमपीति वाच्यम् । तावत्पर्यन्तस्यैव तन्मतत्वात् । तथा चानुमितिलक्षणे पक्षधरमिश्ररुक्तम्-'विशेष्यविशेषणानुयोगिकप्रतियोगिकसंबन्धस्यैव विशिष्टधीविषयत्वात्-' इति । समवायविचारेऽपि प्रत्यक्षालोके तैरुक्तम्-'विशेषणे प्रतियोगित्वस्य विशेष्ये चानुयोगित्वस्य भानात्' इति ॥ न च विशेष्यत्वादिकं भासमानवैशिष्ट्यानुयोगित्वादिरूपमिति पक्षे संसर्गस्य विशेषणप्रतियोगिकत्वनियमो न त्वतिरिक्ततत्पक्षेऽपीति वाच्यम् । तत्पदार्थस्यातिरिक्तानतिरिक्तत्वमात्र एव हि विवादो न तु वस्तुखरूपे, तस्योभयत्राप्यविशिष्टत्वात् ॥ तदेवमभ्युपेत्यापि प्रतियोगित्वादिबोधं दूषणमभ्यधायि । संप्रति तदेवानुपपन्नमित्याह-वस्तुतस्त्विति । अन्यथैवेति । तत्प्रकारकत्वमेव विशिष्टज्ञानत्वं तच्च खरूपसंबन्धविशेषः । समूहालम्बनव्यावृत्तमित्येव तद्वैलक्षण्यमिति भावः । न त्विति । दण्डपुरुषतदुभयानुयोगिकप्रतियोगिकसंयोगा इति समूहालम्बनात् दण्डी पुरुष इति विशिष्टज्ञानभेदानुपपत्तिप्रसङ्गादनवस्थानाच्चेति भावः । शाब्दस्यैव तादृशबोधस्य तादृशारोपसमर्थकत्वमित्यत्र प्रमाणाभावमाह-अपि चेति । विषयत्वाभावेऽपीति । तत्र बिम्बप्रतिबिम्बभावापन्नपदार्थानामुपमेयोपमानविशेषणतापन्नत्वेन परस्परमभेदान्वयासंभवादिति भावः । सर्वेषामविवादसूचनाय-आलंकारिकत्वावच्छेदेनेति । अनुगामिधर्मस्थलेऽप्याह-एवमिति । शाब्दान्वयाभा