________________
अलंकारकौस्तुभः ।
२२६ . क्रियते ॥ ननु राशि चन्द्राभेदसमर्थकत्वानुपपत्तिरेवात्र मानमिति चेत्, न । तदुत्तरकालीनसौजन्यविशेष्यकाभेदसंसर्गकचन्द्रिकाप्रकारकमानसबोधत एव संभवात् ॥ अथ शाब्दस्यैव तादृशाभेदज्ञानस्य तत्समर्थकत्वमिति चेत् । तत्कि सौजन्यनिष्ठभेदप्रतियोगिनी चन्द्रिका इति बोधः शाब्द इति त्वदभिमतम् । ओमिति चेत् । भ्रान्तभाषितमेवैतत् । सौजन्यं प्रकारः अभेदः संसर्गः चन्द्रिका च विशेष्यं ततश्च सौजन्याभिन्ना चन्द्रिका इत्येव शाब्दबोधः, प्रतियोगित्वानुयोगित्वयोः पदार्थतत्संसगोभयभिन्नत्वेन शाब्दबोधाविषयत्वात् । न च समूहालम्बनाद्विशिष्टज्ञानस्य भेदान्यथानुपपत्त्या संबन्धसंबन्धाङ्गीकर्तृमते तद्भानसंभव इति वाच्यम् । तन्मतेऽपि विशेषणप्रतियोगिकत्वं विशेष्यानुयोगिकत्वं च संसर्गस्य भासते इत्येवाङ्गीकारात् । तथा चैकस्मिन्नंशे तन्मतमनुसरन्नपरत्र च वैपरीत्यमाश्रयन्कथं नालज्जिष्ठाः। वेत्यभिमानात् । तत्समर्थनानुपपत्तिमेवोद्भावयति-नन्विति । अन्यथोपपत्तिं दर्शयति-तदुत्तरेति । सौजन्यप्रतियोगिकाभेदवती चन्द्रिकेत्येतद्बोधोत्तरेत्यर्थः । तदुत्तरं यथोक्तशाब्दबोधासंभवादाह-मानसेति । सौजन्यप्रतियोगिकमभेदं चन्द्रिकायामवगाहने शाब्दबोधे वृत्ते तदुत्तरं खस्य वाभिन्नाभिन्नतया चन्द्रिकाप्रतियोगिकमभेदे सौजन्ये गाहमानं मानसमुत्पद्यते तेनैव राज्ञि चन्द्राभेदारोपः समर्थित इत्यर्थः ॥ अभेदमात्रस्य संसर्गत्वेऽपि तत्संसर्गतायां प्रतियोगित्वानुयोगित्वादिकं कुतो न शाब्द. बोधे भासत इत्यत आह-पदार्थेति । पदार्थतत्संसर्गाणामेव तद्विषयनियमादतिरिक्तस्य भानासंभवादित्यर्थः । यद्यपि विशिष्टवुद्धिमात्रे विशेषणविशेष्यतत्संसर्गातिरिक्तस्य भानं नास्तीति नियमात् । शाब्दबोधेऽपि विशेषोपादानमसंगतम् । तथापि प्रकृतत्वात्तथोक्तम्-समूहेति । दण्डपुरुषसंयोगा इति समूहालम्बनात् । दण्डी पुरुष इति विशिष्टज्ञानस्य वैलक्षण्यानुभवसिद्धम् । तच्चोभयत्रापि विषयसाम्यादनुपपन्नम् । अतोऽन्यथानुपपत्त्या विशिष्टज्ञाने विशेषणविशेष्ययोः संबन्धस्य संयोगादेः संबन्धः प्रतियोगित्वानुयोगित्वरूपो दण्डपुरुषादिनिष्टो भासते । समूहालम्बने तु न तथेति । विषयवैषम्याद्वैलक्षण्यमुपपन्नमिति केषांचिन्मतम् । एवं चात्रापि विशिष्टबुद्धित्वात्तद्भाने संभव इत्यर्थः । एकस्मिन्निति । संबन्धस्यापि संबन्धो भासत इत्यंशे इत्यर्थः । अन्यत्रेति। विशेषणस्यानुयोगित्वं विशेष्यस्य च प्रतियोगित्वं अभेदं प्रति भातीति त्वया १. 'नन्यत्र' इति टीकासंमतपाठः. १. 'त्यन्वया खी' ख.
२९