________________
काव्यमाला।
२२४ पर्वतानुयोगिकत्वेन वहिप्रतियोगिकत्वेनैव तस्य भानात् ॥ यत्तु-दुराग्रहमात्रमेतदिति । तदेव दुराग्रहः, भासमानवैशिष्टयप्रतियोगित्वं प्रकारत्वम्, भासमानवैशिष्टयानुयोगित्वं च विशेष्यत्वमिति सिद्धान्तात् । संसर्गस्य विशेषणानुयोगिकत्वखीकारे च तद्विरोधस्य स्फुटत्वात् ॥ किं च । सौजन्यविशेष्यकाभेदसंसर्गकचन्द्रिकाप्रकारकबोधः शाब्दस्तस्मान्मास्तु । एतावता का नाम हानिर्भवतः, येनात्र विशेषणानुयोगिकत्वं भासत इत्यङ्गी
इत्यत्र बीजाभाव इति किं दर्शनमात्रनिबन्धननियमखीकारेणेत्याशङ्कते-यत्त्विति । दुराग्रहेति । बीजाभावादित्यर्थः । उपहसति-तदेवेति । प्रामाणिकस्य दुराग्रहत्वोद्भावनमेव दुराग्रहपर्यवसायिभ्रान्तिरूपत्वादित्यर्थः । तथा स्वीकारे बीजं दर्शयति-भासमानेति । दण्डी पुरुष इत्यत्र संयोगाख्यं दण्डपुरुषयोर्वैशिष्ट्यं भासते तत्र दण्डः संयोगे प्रतियोगीति विशेषणम् । पुरुषस्तु तत्रानुयोगीति विशेष्यम् । एवं च यदि त्वदुक्तरीत्या संसर्गे विशेषणं अनुयोगित्वेनापि गृह्यते तदा विशेषणविशेष्यलक्षणयोर्विशेषणे चातिव्याप्तिः स्यादिति भावः । इदं च प्राचीनमतमनुसृत्य समाहितम्, विशेष्यत्वप्रकारत्वादिकमतिरिक्तविषयताविशेषखरूपमेवेति नूतनपक्षमूलकं पूर्वमताखरसं हृदि निधाय प्रकृतानुपपत्तिं च प्रकारान्तरेण निराकर्तुमभिसंधाय विशेषणानुयोगिकोऽत्र संसर्ग इति कल्पनमेवाक्षिपति-अपि चेति । मास्त्विति । यद्यपि सौजन्यचन्द्रिकेति कर्मधारये सौजन्यविशेष्यकाभेदसंसर्गकचन्द्रिकाप्रकारकबोधो न तेन स्वीकृतः प्रकृते बाधात् । किंतु सौजन्यनिष्ठाभेदप्रतियोगिनी चन्द्रिकेति च. न्द्रिकाविशेष्यक एवेत्ययमप्रसक्तप्रतिषेधः प्रतिभाति । तथापि सौजन्यनिष्ठत्वेन चन्द्रिकाप्रतियोगिभेदावगाहनसाम्येन तत्प्रतिषेधः कृतः । तात्पर्य तु सौजन्यनिष्ठाभेदेत्यादिवोधनिषेध एव । न च निषेधप्रतियोगिबोधं साक्षादनुपादाय तत्समानविषयकज्ञानान्तरनिषधोऽनुचित इति वाच्यम् । यथात्र सौजन्यविशेष्यकबोधो न संभवति, तथा त्वदभिमतः सौजन्यनिष्ठेत्यादिबोधोऽप्यनुपपत्तिसूचनार्थत्वात् ॥ अत एव येनात्र विशेषणानुयोगिक भासत इत्यङ्गीक्रियते (इत्यत्र) तन्मतं यथा श्रुतमेवानुवदिष्यतिका नाम हानिरिति । कानुपपत्तिरित्यर्थः । येनेति । येनेति हेत्वर्थे निपातः । यदि हि तादृशकल्पनं विना चन्द्राभेदसमर्थनमनुपपन्नं स्यात् । तदा तद्बलादेवान्यत्र दृ. श्यमानमपि नियममवभूय तथैव कल्पेत । तदुक्तम्-'अन्यथानुपपत्तिश्चेदस्तिवस्तुप्रसाधिका । विनष्टि दृष्टवैमत्यं सैव सर्वबलाधिका ॥' इति । अत्र तु वक्ष्यमाणरीत्या तदन्यथाप्युपपन्नमिति न दृष्टपरित्यागः प्रमाणवानित्यभिप्रायः । अन्यथोपपत्तिर्नास्त्ये
१. 'अपि च' इति टीकासंमतपाठः.