________________
अलंकारकौस्तुभः ।
२२३
अत्र केचित् - कर्मधारये भेदो विशेषणस्य संसर्गः । ' मुखं चन्द्रः ' इति वाक्ये 'चन्द्रप्रतियोगिकाभेदवन्मुखम्' इति प्रतियोगित्वमुखः । 'मुखचन्द्रः' इत्यादिसमासे तु मुखानुयोगिकाभेदप्रतियोगी चन्द्र इत्यनुयोगित्वमुखः । तदुभयत्रापि चन्द्राभेद एव संसर्गः । वाक्ये प्रतियोगित्वमुखः, समासे त्वनुयोगित्वमुखः इत्येव विशेषः । मुखचन्द्र इत्यत्र मुखाभेदस्तु न संसर्गः, चन्द्ररूपकानापत्तेः । विशेषणप्रतियोगिक एवाभेदः संसर्गो न तु तदनुयोगिक इति तु दुराग्रहः निर्बीजत्वादिति । तथा च 'सौजन्यनिष्ठाभेदप्रतियोगिनी चन्द्रिका' इति भङ्गयन्तरेण सौजन्ये चन्द्रिकातादात्म्यसिद्धौ राज्ञि चन्द्राभेदसिद्धिः - इति ।
अत्रोच्यते - 'नीलघटः' इति कर्मधारये नीलप्रकारका भेदसंसर्गकघटविशेष्यकज्ञानोदयात् विशेषणप्रतियोगिक एवाभेदः संसर्गः, न तु विशेध्यप्रतियोगिकः—इति । संसर्गमात्रे चायमेव नियमः । प्रकारप्रतियोगिक । एव संसर्गो न तु विशेष्यप्रतियोगिक इति । 'पर्वतो वह्निमान्' इत्यादौ अत्र केचिदिति । अभेद इति । 'तत्पुरुषः समानाधिकरणः कर्मधारयः' इति वचनात् । उभाभ्यां प्रवृत्तिनिमित्ताभ्यामेकस्य धर्मिणो बोधनीयत्वादित्यर्थः । मुखचन्द्रेति । एवं च विशेषणविशेष्यभाव वैचित्र्येऽपि चन्द्रप्रतियोगिकाभेदवन्मुखमित्यनेन समानार्थकत्वमेवेति भावः । वाक्य इति । विशेषणस्य प्रतियोगित्वावगा - हिज्ञानविषय इत्यर्थः । समासे त्विति । तत्र विशेषणस्यानुयोगित्वावगाहि ज्ञानवितय इत्यर्थः । एतन्मतमूलग्रन्थे तु प्रतियोगित्वानुयोगित्वयोविंशेष्यनिष्ठत्वेन निर्देशोऽभिमतः । वाक्येऽभेदं प्रति विशेष्यभूतस्य मुखस्यानुयोगित्वभानात् । समासे च विशेष्यभूतस्य चन्द्रादेरुपमानस्य प्रतियोगित्वभानात् । अतस्तत्र वाक्येऽनुयोगित्व. मुखसमासे प्रतियोगित्वमुख इति व्यवहृतमित्यविरोधः । एवं च यदाभेदस्य प्रतियोगी - मुखत्वं तत्र रूपकस्यानुवाद्यत्वम् यथा मुखचन्द्र इति समासे । यत्र त्वनुयोगित्वमुखत्वं तत्र विधेयत्वम्, यथा मुखं चन्द्र इति वाक्ये इत्यर्थः । क्वचिद्विशेषणप्रतियोगिकत्वेन संसर्गभानेऽपि । अन्यत्र चैतद्वैपरीत्यमपि दृश्यते ॥ तदानुपपत्तिबलादत्रापि मुखनिष्ठाभेद एव संसर्गतया कल्पेतेति शङ्कामपकर्तुं सर्वत्रापि विशेषणप्रतियोगिक एव संसर्ग इति नियम एवायं न तूत्सर्ग इत्यभिप्रायेणाह - संसर्गमात्रे चेति । सांसर्गिकविषयतापन्नसंसर्गमात्र इत्यर्थः । अन्यथा दण्डसंयोग इत्यादि शाब्दबोधे पदार्थीभूतसंयोगस्य दण्डनिष्टत्वेनापि भानादनुत्पत्तिः स्यात् । शाब्दातिरिक्तस्थलमेवो. दाहरति - पर्वत इति । ननूक्तमेवात्रोत्तरं विशेषणप्रतियोगिक एव संसर्गो भासते