________________
२२२
काव्यमाला ।
अत्राक्षिपन्ति – समासगतपरम्परितरूपकस्थले तत्पुरुषावयवभूते कर्मधारये पूर्वपदार्थस्याभेदसंसर्गेणोत्तरपदार्थविशेषणत्वेनोपमेये उपमानाभेदसमर्थकत्वं न संभवति । 'यत्संबन्धिनि यत्संबन्ध्यभेदस्तस्मिंस्तदभेदः ' इति व्युत्पत्तेः । 'सौजन्यचन्द्रिकाचन्द्रः' इत्यादौ हि चन्द्रिकायां सौजन्याभेदो राज्ञि चन्द्राभेदसमर्थक इत्यभिमतम् । तच्च सौजन्यविशेष्यका - भेदसंसर्गकचन्द्रिकाप्रकारकारोपेण सिद्ध्यति, न तु चन्द्रिकायां सौजन्याभेदेन । तद्यथा
'सौजन्यं ते धराधीश चन्द्रिका त्वं सुधानिधिः ।'
अत्र हि राजसंबन्धिनि सौजन्ये चन्द्रसंबन्धिचन्द्रिकातादात्म्यसिच्या राज्ञि चन्द्रतादात्म्यमुपपन्नम् । न च चन्द्रिकायां सौजन्याभेदबोधे सौजन्ये तदभेदोऽपि भासते समानवित्तिवेद्यत्वात्, स्वस्य स्वाभिन्नाभिन्नत्वादिति वाच्यम् । प्रत्यक्षे सामग्रीसाम्यादेकवित्तिवेद्यत्वम्, शाब्दे तु व्युत्पत्तिविशेषनियत एव बोध इति अतिरिक्तस्याभानात् । एवं 'मुखचन्द्र' इत्यादिसमासेऽपिं कथं मुखविशेष्यक चन्द्राभेदारोपः - इति ॥
तीति भावः । तत्पुरुषावयवेति । पूर्वपदभूतेत्यर्थः । यत्संबन्धिनीति । यन्निरूपितसंबन्धिधर्मिको यत्संबन्धिप्रतियोगिकाभेदः प्रतीयते तत्राभेदप्रतियोगिसंबन्धिनिरूपकः प्रतियोगिकामेदः अभेदधर्मिसंबन्धिनिरूपकधर्मिकः सिद्ध्यति । एवं च यत्संबन्धिनोरभेदबोधे यत्संबन्धो प्रतियोगितया स एव द्वितीयाभेदे प्रतियोगितया, यत्संबन्धीवाश्रयतया स एव द्वितीयाभेदे आश्रयतयेति फलितार्थः ॥ चन्द्रिकायामिति । चन्द्रिकाविशेष्य कसौजन्यप्रतियोगिकाभेद इत्यर्थः । यादृशेन प्रकृतसिद्धिरुपन्यस्ता तदुदाहरति — तद्यथेति ॥ राज्ञीति । राजविशेष्यकचन्द्रप्रतियोगिकाभेदेत्यर्थः ॥ नन्वन्यविशेष्यकान्य प्रतियोगिकाभेदबुद्ध्या कथमन्यविशेष्यकान्यप्रतियोगिकाभेदावगाहनमित्यंत आह- समानेति । तुल्यसामग्रीकत्वात् । यद्धि न विना न भासते तद्धि हेतोस्तद्बोधकत्वमिति सिद्धान्तात् । सामग्रीति । इन्द्रियसन्निकर्षादिरूपेत्यर्थः । व्युत्पत्तीति । आकाङ्गेत्यर्थः । तथा च यादृशरीत्या पदादुपस्थितिस्तयैव बोधः । आकाङ्क्षादीनां तत्प्रकारकतद्विशेष्यकादितत्तद्बोधविशेष्य नियतत्वेन तद्वैपरीत्येन शाब्दानुदयादिति भावः । अन्यत्राप्याक्षेपमाह - एवमिति । मुखप्रति-योगिकाभेदवांश्चन्द्र इत्येवात्र शाब्दं संभवति । न तु चन्द्रप्रतियोगिकाभेद्रवन्मुखमिति तथा च नोपमेयोत्कर्षपर्यवसानं स्यादिति भावः । रसगङ्गाधरादीनां समाधानमाह