________________
अलंकारकौस्तुभः। वाचकभेदे मालारूपं परम्परितं यथा'ववसाअरइपओसो रोसगइन्दस्स सहलापडिबन्धो ।
कह कह वि दासरहिणो जअकेसरिपञ्जरो गओ घनसमओ ॥' अत्र हि व्यवसायादौ रवित्वाधारोपं विना घनसमये प्रदोषत्वाधारोपो न संभवतीति परम्परितम् । रविप्रदोषयोरारोप्यारोपविषययोभिन्नपदवाच्यत्वं च । यथा वा-.
'माणदुमपरुसपवणस्स मामि सबङ्गणिव्वुइअरस्स ।।
उअऊहणस्स भदं रइणाडअपुव्वरंगस्स ॥ मानरत्योर्दुमनाटकाभेदारोपोऽत्र उपगृहनपवनपूर्वरङ्गाभेदारोपे निमित्तम् । अत्र विरोधितासंबन्धेनानुग्राह्यानुप्राहकभाव इति विशेषः । अभेदारोपस्य संसर्गारोपानुग्राहकत्वं यथा मम'दृशौ नीलाम्भोजे वरतनु कुचौ कोकतरुणौ ___ चकास्तीयं रोमावलिरपि च शैवाललतिका । प्रवाहो लावण्यं त्रिवलिरियमाभाति लहरी
कवीन्द्राणामन्तः स्फुरति सरसीत्वं त्वयि ततः ॥ संसर्गारोपस्याभेदारोपानुग्राहकत्वं यथा ममैव'मन्दाकिनीत्वमिह मौक्तिकमञ्जुदामि
स्थूलेन्द्रनीलगुलिकासु च जाम्बवत्त्वम् । ध्वान्तत्वमुन्नतमृगीमदकर्दमेऽत्र
वक्षोरुहः सुतनु ते तपनीयशैलः ॥' एवमन्येऽपि भेदाः खयमूह्या इति ।
चमत्कारप्रयोजकेत्यर्थः । 'व्यवसायरविप्रदोषो रोषगजेन्द्रस्य शृङ्खलाप्रतिबन्धः । कथ कथमपि दाशरथेर्जयकेशरिपञ्जरो गतो घनसमयः ॥' [इति च्छाया।] सेतुकाव्ये शरदारम्भवर्णनम् ॥ प्रातिकूल्येन तदनुग्राहकमुदाहरति-यथा वेति । 'मानद्रुमपरुषपवनस्य मातुलि सर्वाङ्गनिर्वृतिकरस्य । उपगृहनस्य भद्रं रतिनाटकपूर्वरङ्गस्य ॥' [इति च्छाया।] विरोधितेति । माने दुमारोपे तदुन्मूलकत्वेनोपगृहंने पवनारोपः सिद्ध्य