________________
२२०
काव्यमाला।
रिति शब्दार्थोभयश्लेषोऽयम्, तथाप्यलंकारसर्वखकारादीनां प्राचीनानां प्रसिद्धिमनुसृत्यार्थालंकारमध्ये पाठः । कैश्चित्त्विदमेकदेशविवर्तीति व्यवह्रियते । तथा हि । यथा रणेऽन्तःपुरत्वारोपे खड्गलतारिपुसेनयोर्नायिकाप्रतिनायिकात्वारोपः सामर्थ्यात् । तथा मनसि सरस्त्वारोपे तबलाद्राज्ञि हंसत्वारोपः इति ।
नवीनास्तु-रणस्यान्तःपुरत्वं सुखसंचारास्पदत्वादपि असिलतादौ नायिकात्वाद्यारोपो लिङ्गविशेषकरग्रहादिनायिकाधर्मारोपादपि संभवति । विद्वन्मानसेत्यादौ तु मनःसरोवराधेयत्वं विना राज्ञि हंसत्वारोपनिमितसाधान्तरविरहेण हृदये सरस्त्वारोपं विना राज्ञि हंसत्वारोपो न संभवति इतीदं परम्परितमेव न त्वेकदेशविवर्तीत्याहुः ॥
पदसादृश्येव गतिरित्यवधेयम् । शब्दार्थेति । शब्दार्थान्यतरान्वयव्यतिरेकानुविधानस्यैव तत्तदलंकारतायां प्रयोजकत्वादित्यर्थः ॥ ननु पूर्वाचार्यैरप्युपमालंकारोऽयं किमित्यर्थालंकारमध्ये उदाहृतो बीजाभावादित्यत आह-कैश्चित्त्विति । पूर्वोक्तैरेवेत्यर्थः । रणेऽन्तःपुरेति। प्रसिद्धोदाहरणाभिप्रायेण 'जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गालडाम् । रससंमुही वि सहसा परम्मुही होइ रिउसेणा ॥' 'यस्य रणान्तःपुरे करे कुर्वतो मण्डलापलताम् । रससंमुख्यपि सहसा पराङ्मुखी भवति रिपुसेना ॥' इति च्छाया ॥ 'कौक्षयको मण्डलानः करवाल: कृपाणवत्' इत्यमरः। सामर्थ्यादिति । रणेऽन्तःपुरत्वारोपे केवलमण्डलापलतायाः तत्संबन्धानहतया तत्समानाधिकरणवस्त्वन्तरावच्छिन्नाया एव तस्यास्तथात्वात् । औचित्यवशात्तस्यां नायिकातादात्म्यप्रतीतेरावश्यकत्वादित्यर्थः । अन्तःपुरं नायिकाप्रतिनायिकाधिकरणमिति व्याप्तिरेव सामर्थ्य मिति चक्रवर्तिनः । दार्टान्तिकमाह-तथेति । एवं च तादात्म्यारोपस्यार्थगम्यत्वेन शब्दालंकारत्वविरहात् । युक्तमेवात्रोदाहरणमिति चण्डीदासादयः । दृष्टा-- न्तत्वाभिमते प्रकृताद्वैषम्यमाह-रणस्येति ॥ सुखेति । तथा च तस्य खगलता विशेष्यकनायिकातादात्म्यप्रतीतिमन्तरेणाप्यनुपपत्तिविरहान्नावश्यं तदपेक्षेति भावः । नन्वेवं खड्गलतानायिकातादात्म्यप्रतीतिः कथं सेत्स्यतीत्यत आह-असीति ॥ लि. विशेषेति । स्त्रीत्वरूपेत्यर्थः । इयं च स्त्रीत्वादिलिङ्गमर्थनिष्ठमिति मते यथा श्रुतमेव । शब्दनिष्ठमिति पक्षे तु परम्परया संगमनीयम् । प्रकृते ततो वैषम्यमाहविद्वदिति । ननु राजहंसयोरपि द्रव्यत्वादिकृतसादृश्यमस्त्येवेत्यत आह-हृद्येति ।
१. 'तदारोपस्या' ख.