________________
अलंकारकौस्तुभः ।
२१९ इह केशेषु मेघत्वारोपः सुवर्णपट्टिकायां विद्युत्त्वारोपे निमित्तम्, केशाम्बुदयोभिन्नत्वं च । वाचके श्लिष्टे मालारूपं परम्परितं यथा
'विद्वन्मानसराजहंस कमलासंकोचदीप्तद्युते
दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्षविजयेप्राग्भावभीमप्रभो
साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ॥ अत्र विदुषां मानसं मन एव मानसं सर इति श्लेषमूलकाभेदाध्यवसायलभ्यं मानसवासित्वं राज्ञि हंसत्वारोपे निमित्तम् । न च हृदयस्य सरस्त्वेनारोपणे राज्ञो हंसत्वेन रूपणं संभवति, तन्निमित्तसाधारणधर्मस्य मुखे कमलत्वाद्यारोपनिमित्तधर्मवत्प्रसिद्धस्याभावात् । अत्र मानसेत्यत्रार्थश्लेषः । कमलासंकोचेत्यादौ शब्दश्लेषः इति विशेषः । यद्यपि मानसादिपदान्यत्र परिवृत्त्यसहानि, न हि चित्तादिपदोपादानेनोक्तार्थः प्रत्याययितुं शक्यते, हंसादिपदानि च तत्सहानि पर्यायान्तरोपादानेऽप्युक्तार्थसिद्धे
त्वत्रापि भावरत्वादिधर्मेण सुवर्णपट्टिकायां विद्युत्तादात्म्यारोपसंभवात्केशाम्बुदरूपकव्यतिरेकस्य तद्रूपकव्यतिरेकप्रयोजकत्वं नास्तीति विभाव्यते तदेदमुदाहार्यम् ॥ प्रथम परम्परितरूपकं मालात्मकमवतारयति-वाचक इति । 'मानसं सरसि वान्ते' इत्यनुशासनम् । कमला लक्ष्मीस्तस्या असंकोच एव कमलत्वानां पद्मानामसंकोचो विकासस्तजनकतया सूर्याभेदारोपः । दुर्गाणाममार्गणं तदाश्रयणार्थमनन्वेषणम् , असम. र्थानामेव तदन्वेषणनियमात् । तदेव दुर्गायाः पार्वत्या मार्गणं तेन शिवाभेदारोपः । समितां संग्रामाणां स्वीकार एव समिधां काष्ठानां स्वीकारः तेन विन्ध्यारोपः । सत्यवाक्ये प्रीतिरेव सत्यां दक्षकन्यायामप्रीतिः । तत्र दक्षः प्रवीणः । अथ च दक्षः प्र. जापतिविशेषः । विजयो वैरितिरस्कारः । तस्य प्राग्भावे पूर्वकाले भीमो भयजनक- . स्तदुत्तरं सौम्यत्वात् । अथवा विजयोऽर्जुनः । 'बीभत्सुर्विजयः कृष्णः' इति महाभारतात् । तत्पूर्वकालोत्पत्त्या भीमः पाण्डवविशेषः । वत्सरशतमित्यत्र 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । परिवृत्त्येति । परिवृत्तिः पर्यायान्तरोपादानं न सहन्ते । तेन प्रकृतार्थनिर्वाहादित्यर्थः । तदेवं दर्शयति-न हीति । उक्तार्थ इति । हृदयाभिनसरोरूप इत्यर्थः । तत्सहानीति । परिवृत्तिसहानीत्यर्थः । हंसादीत्यादिपदेन दीप्तद्युतिनीललोहितवैश्वानरपदसंग्रहः । दक्षभीमपदयोस्तु तदसहत्वे मानसादि