________________
२१८
काव्यमाला। अन्यत्रान्यारोपहेतुर्यदारोपस्तदर्थकपदस्य श्लेषसामर्थ्यादारोप्यारोपाधिकरणवाचकत्वे आरोप्यारोपविषयवाचकपदयोर्भेदे च परम्परितं संभवतीति द्विविधं तदित्यर्थः । आद्यं यथा
'पाउसलच्छीपओहरेहि पडिपेल्लिओ विझो ।
उबहइ णवतिणङ्कुररोमञ्चपसाइआइ अङ्गाइं ॥' । अत्र हि तृणाकुरेषु रोमाञ्चत्वारोपः पयोधरो मेघः, एवं पयोधरः स्तनः इति मेघे स्तनत्वारोपं विना न संभवति मेघालिङ्गनेन रोमाञ्चानुपपत्तेरिति मेघे स्तनत्वारोपो नवतृणाङ्करेषु रोमाञ्चत्वारोपे निमित्तमिति पयोधरपदोपस्थाप्ययोर्मेघस्तनयोरभेदसंबन्धेनान्वयादुक्तार्थलाभः । यथा वा'भुवि भ्रमित्वानंवलम्बमम्बरे विहर्तुमभ्यासपरम्परा परा। . अहो महावंशममुं समाश्रिता स कौतुकं नृत्यति कीर्तिनर्तकी ॥
अत्र राज्ञि महावंशो महाकुलसंभवः एवं महान्वंशो वेणुरिति वेणुत्वारोपः कीर्ती नर्तकीत्वारोपे निमित्तम् । उभयत्र पयोधरमहावंशपदयोः श्लिष्टत्वम् ।
भेदे यथा'धृतैव या हाटकपट्टकालिके बभूव केशाम्बुदविद्युदेव सा । मुखेन्दुसंबन्धवशादिवायुषः स्थिरत्वमूहे नियतं तदायुषः ॥"
यात्मकमित्येव विशेष इत्याहुः । 'प्रावृट्लक्ष्मीपयोधरैः प्रतिप्रेरितो विन्ध्यः । उद. हति नवतृणाङ्कुररोमाञ्चप्रथितान्यङ्गानि ॥' [इति च्छाया ।] गाथाकोशे वर्षाकालीननवप्ररूढतृणाङ्कुरवर्णनम् । अत्र पयोधरपदेन मेघस्तनयोरुपस्थापनात्तयोरभेदबोधेन स्तनाभिन्नमेघालिङ्गनजन्यत्वतृणाङ्कुरेषु रोमाञ्चाभेदारोप इत्याह-अत्र हीत्यादि । नन्वत्र तीक्ष्णाग्रत्वादिनापि तृणाङ्कुररोमाञ्चरूपकनिर्वाह इत्यत आह-यथा चेति । महावंशपदे बहुव्रीहिं कर्मधारयं चाश्रित्य तदुपस्थाप्यार्थयोरभेदारोपः । अत्र महावंशाश्रयरूपधर्मेण की? नर्तकीतादात्म्यारोपः, तनिमित्तासाधारणधर्मान्तरानुपस्थितेरत्र तदारोपं विना द्वितीयरूपकासिद्धेरित्याह-अत्रेत्यादि । उदाहरणद्वयस्यैकविषयत्व दर्शयति-उभयत्रेति । पयोधरपदं पूर्वोदाहरणाभिप्रायेण, वंशपदं द्वितीयोदाहरणाभिप्रायेणेत्यवगन्तव्यम् । रूपकान्तरसिद्धिहेतुभूतरूपकघटकशब्दभेदोदाहरणमाहयथेति । उत्तरार्ध तु क्षणावस्थायित्वरूपवैधर्म्यनिरासमात्रपरमित्यवगन्तव्यम् । यदि