________________
अलंकारकौस्तुभः ।
अनेकपदमेकभिन्नपरं यथा'नन्दकुलकालभुजगी कोपानलबहलधूमलताम् । अद्यापि बध्यमानां बध्यः को नेच्छति शिखां मे ॥ अन्यारोपाभावप्रयोजकस्य त्वभावस्य ।। ३ ॥
प्रतियोगी परकीयारोपो यस्तत्परम्परितम् । यत्र यदारोपं विनान्यत्रारोपो न संभवति तत्परम्परितं नाम रूपकम् । परम्परा एकारोपस्यान्यारोपहेतुत्वमित्येवंरूपा संजातात्रेति तारकादेराकतिगणवादितजित्यर्थः । तस्य द्वैविध्यमाह
तेच्च श्लेषभिदाभ्यामारोपनिमित्तशब्दस्य ॥ ४ ॥
नम् । अनेकपदस्य त्रिप्रभृतिमात्रपरतामाशङ्कयाह-अनेकपदमिति । एकभिन्नत्व. स्यैवावयवार्थत्वादयमेव मुख्योऽनेकपदार्थः । अत एव 'अनेकमन्यपदार्थे' इति वच. नविहितो बहुव्रीहिश्चित्रगुरित्यादौ प्रसिद्ध इति भावः । इदं त्ववधेयम्-मालारूपकस्थले विरोधालंकारध्वनिरावश्यक एकस्य विरुद्धोभयतादात्म्यस्यात्र विषयीक्रियमाणत्वात् । यथोदाहृते कलहंसरवे धनुःशब्दनूपुरशब्दाद्यभेदावगाहनम् । अत एव 'यस्तर्कतन्त्रशतपत्रसहस्ररश्मिर्गङ्गेश्वरः सुकविकैरवकाननेन्दुः' इति श्लोकं व्याचक्षाणैरेकस्मिन्वर्धमानोपाध्याये सूर्यचन्द्रोभयाभेदप्रतीत्या विरोधालंकारध्वनिरिति पक्षधरमित्रैः कुसुमाञ्जल्युपायविवरणे विभावितमिति ॥ परम्परितमाह-अन्यारोपेति । अन्यविशेष्यकान्यप्रकारकारोपाभावप्रयोजकाभावप्रतियोग्यन्यविशेष्यकान्यप्रकारकारोप: परम्परितमित्यर्थः । ननु सावयवरूपकात्परम्परितस्य को भेदः तत्राप्यारोपान्तराणां रूपकान्तरसिद्धिहेतुत्वादिति चेत् । अत्र वदन्ति-यत्र प्रकारान्तरेण सादृश्यनिर्वाहसंभवेऽपि चमत्कारविशेषजननार्थ रूपकान्तरमुपन्यस्यते तत्र सावयवं यथा 'शोभते विशुद्धकिरणः इत्यादी गगनसमुद्रान्तगर्तत्वादिप्रत्ययमन्तरणापि शुभ्रत्वादिना तारासु मौक्तिकारोपसिद्धेः । रूपकान्तरोपन्यासे तु चमत्कारातिशय एवमुल्लसति । 'विद्वन्मानसराजहंस-'इत्यादौ तु राज्ञि हंसाभेदारोपहेतुसाधारणधर्मान्तरस्य चमत्कारहेतोरप्रसिद्धतया हृदये सरोरूपकेण तद्वृत्तित्वरूपधर्ममादाय राज्ञि हंसाभेदारोपो निर्वहतीति परम्परितमिति भेदः । तस्माद्रूपकान्तरमनपेक्ष्य यद्रूपकमेव न खात्मानमासादयति तत्परम्परितं यत्र तु रूपकान्तरमनपेक्ष्यापि रूपकान्तरमविकलमात्मानमाप्नोति तत्र रूपकान्तरमुपन्यस्यमानं चमत्कारसमुद्वेलनार्थमेवापेक्ष्यत इति सावयवत्वमिति ॥ त. देतत्सर्व विशदयन्नाह-यत्रेत्यादि । अन्ये तु सावयवं बह्वारोपकं इदं त्वारोपद
१. 'तत्र' इत्यलंकारमुक्तावल्यां पाठः.