________________
काव्यमाला। जलदसमयवितीर्णत्वोक्त्या नायकाधिकरणत्वबाधेन नायिकाधिकरणत्वसिद्धेः । नखक्षते चानुरागपूर्वकत्वं विशेषणम् । अतो न किंचिदादाय व्यभिचारशङ्का ॥
निरवयवं तु तदुक्तं यद्येकारोपसाधकं नान्यत् ॥ २॥ यत्र क्वचित्किंचिदारोप्यत इत्येतावन्मात्रम् , न तु तदुपपादकमारोपान्तरं तद्रूपकं निरवयवं शुद्धमित्यर्थः । यथा'दैवात्पश्येर्जगति विचरन्मत्प्रियां मालती चे
दाश्वास्यादौ तदनु कथयेर्माधवीयामवस्थाम् । आशातन्तुर्न च कथयतात्यन्तमुच्छेदनीयः
प्राणत्राणं सपदि स करोत्यायताक्ष्याः स एकः ॥' अत्राशायास्तन्तुत्वेन रूपणमात्रम् ।
मालारूपकमुक्तं त्वेकस्मिन्भूयसां यदारोपः। . यत्र परस्परनिरपेक्षा एकस्मिन्ननेके आरोपास्तन्मालारूपकम् ।। यथा'मम्महधणुणिग्घोसो कमलवणक्खलिअलच्छिणेउरसदो ।
सुव्वइ कलहंसरवो महुअरवाहित्तणलिणिपडिसलावो ॥' अत्रैकस्मिन्कलहंसरवे मन्मथधनुर्निर्घोषाद्यनेकारोपः ।
जलदेति । ननु नखक्षतस्यान्यत्रापि संभवात्कथमेतदन्यतरवृत्तित्वनियम इत्यत आह-नखक्षतेत्यादि । एवं द्विविधं सावयवमभिधाय द्वितीयभेदमाह-निरव... यवं त्विति । अभेदान्तरप्रयोज्यत्वाभाववदभेदावयवत्वनिरवयवत्वमिति दर्शयतियोति । एवं चैतव्युत्पत्तिकथनादभेदान्तरप्रयोज्यतदभेदकत्वसावयवत्वमिति वैपरीत्येन पूर्वभेदस्यापि लक्षणं दर्शितं भवतीत्यवधेयम् । रूपणमात्रमिति । न त्वाशायास्तदारोपोपपादकमारोपान्तरमपीत्याशयः । एकस्मिन्निति । विषयभूतेत्यर्थः । भूयसामिति । विषयिणामित्यर्थः ॥ 'मन्मथधनुर्निर्घोषः कमलवनस्खलितलक्ष्मीनूपुरशब्दः । श्रूयते कलहंसरवो मधुकरव्याहृतनलिनीप्रतिसंलापः ॥' सेतुकाव्ये शरद्वर्ण
१. 'महुअरि (मधुकरी)' इति सेतुपाठः.