________________
अलंकारकौस्तुभः ।
रूपकमेवेत्यत्र मानाभावः । तारा मुक्ता इवेत्यादिरूपोपमितसमासस्यापि संभवात्संदेहसंकरादिति चेन्न । विशुद्ध किरण इति सामान्यधर्मप्रयोगसत्त्वादुपमितसमासाभावात् । तथा च पाणिनिसूत्रम् – 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति । अस्यार्थस्तु – उपमितमुपमेयं व्याघ्रादिभि - रुपमानैः सह समस्यते सामान्यस्य साधारणधर्मस्य प्रयोगेऽसति । पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्र इत्युदाहरणम् । सामान्याप्रयोगे इति किम् । पुरुषो - ऽयं व्याघ्र इव शूरः इत्यत्र 'पुरुषव्याघ्रशूर : ' इति मा भूत् । अतस्तारा इव मुक्ताः इति 'मयूरव्यंसकादयश्च' इति समासः । एककदेशविवर्ति श्रौतार्थत्वे तु सा द्वे ।
यत्र केचिदारोप्यमाणाः शब्दोपात्ताः केचिच्चार्थगम्यास्तदेकदेशे विशेषेण वर्तते इत्येकदेशविवर्ति । विशेषस्तु स्वसामर्थ्यादन्यारोपाक्षेपकत्वरूपः ॥ पूर्वोक्तं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधमपि रूपकं साङ्गं सावयवमित्यर्थः ।
यथा- -
२१५
'पीणपओहरलग्गं दिसाण पवसन्तजलअसमअविइण्णम् । सोहग्गपढमइह्वं पम्माअइ सरसणहपअं इन्दहणुम् । अत्रेन्द्रधनुषो नखपदत्वेन रूपणात् दिशां नायिकात्वमाक्षिप्यते । कथमिति चेत् । नखक्षतं नायिकानायकान्यतराधिकरणत्वव्याप्यमिति [अत्र ]
सेतुकाव्ये शरद्वर्णनम् ॥ द्वितीयमाह – एकेति । मात्रानुरोधादेककेति शब्दप्रयोगः । तदेव स्पष्टयितुमेकदेश इत्याद्यर्थे वक्ष्यति । एकदेशवर्तीत्यर्थस्य विशुद्धरहितं संज्ञान्तरमिति चण्डीदासः ॥ श्रौतत्वार्थत्वयोः प्रतियोगिसापेक्षत्वात्कारिकायामनुक्तं प्रतियोग्यंशं संदर्शयति-यत्र केचिदारोप्यमाणा इति । साङ्गे द्वे इत्यस्यार्थमाहपूर्वोक्तमिति । 'पीनपयोधरलग्नं दिशां प्रवसज्जलदसमय विस्तीर्णम् । सौभाग्यप्रथमचिह्न प्रम्लायति सरसनखपदं इन्द्रधनुः ॥' सेतुकाव्ये शरद्वर्णनम् । नखपदं नखक्षतपदम् । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यभिधानात् । अत एव 'नखपदले - खालाञ्छितं बाहुमूलम्' इति तत्र क्षीरखामिनोदाहृतम् । अधिकरणत्वेति । बहुव्रीहिसमासोत्तरत्वप्रत्ययबलात् तदन्यतरवृत्तित्वं लभ्यते । नन्वन्यतरवृत्तित्वलाभेऽपि कथं दिशा नायिकात्वाक्षेपो नायकवृत्तित्वेनापि पर्यवसान संभवादित्यत आह-अत्र