________________
२१४
काव्यमाला। रूपकमेवेदं न स्यात् । भेदगर्भसादृश्यस्यैव रूपकशरीरत्वेन सर्वसंमतत्वादित्यलं बहुना ॥ तद्भेदानाह
आरोप्याः शाब्दाश्चेत्कथयन्ति समस्तवस्तुविषयं तत् ॥ १ ॥ आरोप्या इति बहुवचनमतन्त्रम् । अतो बहुत्वे द्वित्वे वा न दोषः । यत्रारोपविषयविषयिणोः शब्देनोपादानं तद्रूपकं समस्तवस्तुविषयमित्यर्थः । यथा'सोहइ विसुद्धकिरणो गअणसमुद्दम्मि रअणिवेलालग्गो ।
तारामोत्तापअरो फुडविघडिअमेहसिप्पिसंपुडमुक्को ॥' अत्र गगनादौ समुद्रत्वादिकमारोप्यमाणं सर्व शब्दोपात्तम् ॥ नन्विदं
साधर्म्यज्ञानाभावेऽपि रूपकं कुतो न स्यादत आह-भेदगर्भेति । रूपकशरीरोति । तद्धटकत्वेनेत्यर्थः। सर्वेति । येषां तादृक्सादृश्यमूलकारोपविषयाभेदो रूपकम् , येषां तादृशाभेदारोपस्तत्रैषामुभयेषां विशेषणतया, येषां वभेदप्रतीतिजनकप्रतीतिविषयः सादृश्यमेव रूपकं तेषां विशेष्यतया, सादृश्यस्य रूपकघटकत्वादित्यर्थः । एतेन यदुक्तं प्राक् रूपकस्थले सादृश्यलक्षणानङ्गीकारे धर्मानुपस्थितावप्यभेदबोधसामग्रीसत्त्वाद्रूपकनिर्वाहचमत्कारापत्तिरिति, तदपास्तम् । सादृश्यज्ञानस्य बाधबुद्धिप्रतिबन्धकतायामुत्तेजकत्वे तदभावविघटकत्वेनोपयोगस्योक्तत्वात् । किंच रूपकापत्तिरित्यनेन यदि अभेदबुद्धित्वावच्छिन्नमापाद्यते तदेष्टापत्तिरेव, यदि तादृशवाक्ये सालंकारत्वव्यवहारापत्तिरित्युच्यते तदा आपादकाभावः । न ह्यभेदज्ञानमात्रेणालंकारव्यवहारोऽभ्युपेयते, अत एव चमत्कारापत्तावप्यापादकाभाव एवेति उपमाप्र. करणोक्तं सर्वमवधेयम् । इत्यादिकमभिसंधायाह-इत्यलमिति ॥ सामान्यलक्षणा-.. नन्तरं विभागः प्राप्तसंगतिकः, स च तत्स्वरूपकथनेनैवाविर्भविष्यतीत्यभिसंधिनावतारयति-तद्भेदानिति । रूपकं तावत् त्रिविधम् । सावयवं निरवयवं परम्परितं च । आद्यं द्विधा । समस्तवस्तुविषयं एकदेशविवर्ति चेति । तत्राद्यमाह-आरोप्या इतीति । अतन्त्रमिति । अविवक्षितमित्यर्थः । आरोप्या इत्यत्र पदार्था इति शेषः। आरोप्यपदं चारोपनिरूपकत्वपरतयारोपविशेष्यविशेषणोभयपरमिति दर्शयन्नाह-- यत्रारोपेति । समस्तेति । आरोपनिर्वाहकतया आरोप्यं तद्विषयश्च समस्तशब्दार्थः। तद्रूपस्य वस्तुनः शब्दोपात्तत्वेन विषयत्वादित्यवयवार्थः । 'शोभते विशुद्ध किरणो गगनसमुद्रे रजनिवेलालग्नः । तारामुक्ताप्रकरः स्फुटविघटितमेघशुक्तिसंपुटमुक्तः ॥'