________________
अलंकारकौस्तुभः ।
दृश्यातिशयप्रतीतेरुत्तेजकत्वमङ्गीकार्यम् । बाधबुद्धिप्रतिबध्यप्रतिबन्धकभावानां तत्तद्विशेष्यतावच्छेदकप्रकारतावच्छेदकान्तर्भावेनैव वाच्यतया तेषां भिन्नभिन्नत्वात् । तथा चोत्कटसादृश्यज्ञानाभावविशिष्टमेव ' मुखं न चन्द्रः ' इत्येतादृशबाधज्ञानं प्रतिबन्धकम् । यत्र सादृश्यज्ञानं नास्ति तत्रोक्तबाधनिर्णयसत्त्वेऽभेदान्वयबोधो न भवत्येव ॥ न चैवं मुखं न चन्द्रसदृशं किं तु चन्द्र एव 'सिंहेन सदृशो नायं किं तु सिंहो महीपतिः' इत्यादावभेदान्वयबोधो न स्यात् सादृश्यज्ञानाभावादिति वाच्यम् । तत्रापि चन्द्रसा - दृश्यज्ञानाभावेन भेदाभावज्ञानपर्यवसितेन भेदज्ञानस्यैव प्रतिबन्धात् । तथा च प्रतिबन्धकाभावादेव तत्र कार्योत्पत्तिः । एतावांस्तु भेदः । कुत्रचिद्विशेषणाभावाद्विशिष्टाभावः, अत्र तु विशेष्याभावादेवेति । न हि 'चन्द्रसदृशं न' इति ज्ञानस्य साधारणधर्मवत्तानिषेधकत्वं संभवति । तथा सति
२१३
नाभावविशिष्टबाधाभावसत्त्वादत आह-बाधेति । तद्विशेष्यकतत्प्रकारकज्ञाने द्विशेष्यकतदभावप्रकारकज्ञानत्वेन विशिष्यैव प्रतिबन्धकत्वं कल्प्यते । एवं च प्रकृते 'मुखं चन्द्राभिन्नम्' इति ज्ञानं प्रति 'मुखं न चन्द्र:' इति ज्ञानं प्रतिबन्धकं तत्रैव साह - श्यप्रतीतेरुत्तेजकत्वं स्वीकार्यमित्यर्थः । फलितार्थमाह - तथा चेति । सादृश्यज्ञानसत्त्वे च तदभावविशिष्टबाधाभावो विशेषणाभाव निबन्धनोऽस्त्येवेति प्रतिबन्धकाभावादभेदबोधः सुघट एवेति भावः । नन्वेवं सादृश्यज्ञानाभावकाले बाधधीसत्त्वे अभेदान्वयबोधो न स्यादित्याशङ्कचेष्टापत्त्या परिहरति — यत्रेति ॥ एवं सति यत्र सादृश्याभावोऽवगाह्यते तत्राभेदान्वयबुद्धिरनुभवसिद्धा तत्र निर्वाहो न स्यादित्याशङ्कते - न चैवमिति । एवं सादृश्यज्ञाने उत्तेजकत्व स्वीकारे इत्यर्थः । इत्यादावित्यादिपदेन 'आसीदियं दशरथस्य गृहे यथा श्रीः श्रीरेव वा किमुपमानपदेन सैषा । कष्टं बतान्यदिव दैववशेन जाता दुःखात्मकं किमपि भूतमहो विपाकः ॥' इत्यादिसंग्रहः । सादृश्यज्ञानाभावादिति । तथा च तद्विशिष्टबाधोऽस्त्येवेति प्रतिबन्धकसाम्राज्ये कथं कार्यो - त्पत्तिरिति भावः । भेदाभावेति । सादृश्याभावज्ञानेऽपि तेन तद्धटकभेदाभावमात्रोल्लेखनात्तत्र प्रतिबन्धकभेदज्ञानाभावो विशेष्याभावायत्त एवेति अविकल एव प्रतिबन्धकाभाव इति भावः । कुत्रचिदिति । मुखं चन्द्र इत्यादौ विशेषणाभावेति तत्र बाधज्ञानसत्त्वेऽपि सादृश्यज्ञानसत्त्वेन तदभावप्रयुक्तो विशिष्टाभाव इत्यर्थः । अत्रेति । 'सिंहेन सदृशो नायम्' इत्यस्मिन्नुदाहृत इत्यर्थः । तथा च तत्सत्त्वे मुखं न चन्द्र इत्येतादृशबाधबुद्धेरेवाभावान्नानुपपत्तिलेशोऽपीत्यर्थः । ननूक्तस्थले सादृश्याभावो नावगाह्यते, किंतु तद्धटकभेदाभाव एवेत्यत्र नियामकाभाव इत्यत आह-न हीति ।