________________
२१२
काव्यमाला। यबुद्धित्वमेव प्रतिबध्यतावच्छेदकम्, न तु गङ्गात्वप्रकारकतीरविशेष्यकबुद्धित्वमिति वाच्यम् । समानप्रकारकत्वेनैव बाधबुद्धीनां प्रतिबन्धकत्वात् । अन्यथा पर्वतत्वं धर्मितावच्छेदकीकृत्य पर्वते वह्नयभाववत्ताज्ञाने पर्वतत्व. मेव धर्मितावच्छेदकीकृत्य महानसविशेष्यकवह्निमत्ताज्ञानप्रसङ्गात् । अतस्तत्रापि लाक्षणिकशाब्दबोधोत्तरं व्यञ्जनयैव गङ्गाद्यभेदबुद्धिरिति न्यायपञ्चाननादयः ॥ एवं प्रकृतेऽपि चन्द्रत्वेन बाधबुद्धौ सत्यां कथं तेनैव रूपेण लाक्षणिकोऽप्यन्वयबोधः स्यादिति दिक् ॥ __ अन्ये तु-अभेदगर्भ सादृश्यं रूपके प्रतीयते, उपमायां तु भेदगर्भमेवेति विशेषः, मतान्तरे तु भेदगर्भसादृश्यज्ञानात्कथमभेदप्रतीतिरित्यनुपपत्तिः स्यात्-इत्याहुः ॥ । वस्तुतस्तु–'मुखं न चन्द्रः' इत्येतादृशबाधबुद्धिप्रतिबन्धकतायां सातपावच्छिन्नविशेष्यतावच्छेदकतद्विशिष्टबोधो न भवतीत्याह-समानेति । वैपरीत्ये नियामकमाह-अन्यथेति । तत्रैकत्र पर्वतत्वेन पर्वतस्य परत्र च महानसस्य भानाद्विशिष्टबुद्ध्यापत्तिरिति भावः । नन्वेवं सति कथं तटे शैत्यादिप्रत्यय इत्यत आह-अत इति । न च शक्तिलक्षणाजन्यबोधो यथा बाधान्न भवति, एवं व्यञ्जनयापि कथमभेदबुद्धिः स्यात्प्रतिबध्यतावच्छेदकधर्मावलीढत्वादिति वाच्यम् । व्यञ्जनया धर्मिग्राहकमानेन तद्बोधकत्वेनैव सिद्ध्या तन्मूलकज्ञाने बाधज्ञानस्य प्रतिबन्धकत्वविरहादित्यालंकारिकसिद्धान्तात् । तथा च काव्यप्रदीपे-“शब्देन लाक्षणिकेऽर्थे प्रतिपादिते तत्र मुख्याभेदो व्यञ्जनया प्रतिपाद्यते । 'न च व्यञ्जने बाधः प्रतिबन्धकः' इति काव्यविदां पन्थाः” इति ॥ केचित्तु सत्यामपि बाधबुद्धौ शब्दाभेदान्वयबोधः । तदुक्तं खण्डनकृता-'अत्यन्तासत्यपि ज्ञानमर्थे शब्द: करोति हिं' इति । अतो गङ्गात्वे. नैव तटादिबोध इत्याहुः ॥ एतदाद्यपरितोषान्मतान्तरमवतारयति-अन्ये त्विति । अभेदगर्भमिति । भेदगर्भेति बहुव्रीहिं कृत्वा ततो नसमासः । तेन भेदनिर्मुक्त.. मित्यर्थः । विशेष इति । भेदावगाह्नानवगाहनाभ्यां विषयभेदस्य स्फुटत्वादिति किं भेदकान्तरगवेषणप्रयासेनेत्याशयः। सादृश्यस्योपमासाधारणस्यैवात्र प्रवेशे दोषमाहमतान्तरे त्विति । कथमिति । भेदज्ञानस्याभेदप्रतीत्यनुपायत्वात् । प्रत्युत तद्विरोधित्वादिति भावः । आरोप्यतावच्छेदकरूपेणैवाभेदबोधं समर्थयितुमाह-वस्तुतस्त्विति । प्रतिबन्धकतायामिति । मुखं चन्द्राभिन्नमित्यतादृशज्ञानत्वावच्छिन्नप्रतिबध्यतानिरूपितायामित्यर्थः । सादृश्यातिशयेति । चमत्कारकानेकधर्मविषयिण्या इत्यर्थः । एकस्यां प्रतिबन्धकतायां विषयविशेषप्रतीतेरुत्तेजकत्वं न संभवति । उक्तसादृश्यज्ञानसत्वे वह्नयभाववत्ताज्ञानसत्त्वेऽपि वह्निमत्ता ज्ञानप्रसङ्गात् । सादृश्यज्ञा