________________
अलंकारकौस्तुभः ।
२४७
यथा
'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यश्चोवृत्तभुजंगहारवलयोगङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
पायात्स खयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥' न ह्यत्रापि तुल्ययोगिता संभवति । हरिहरयोरौपम्यस्यात्रानभिसंधानात् । एवं च विविक्तविषयसद्भावात्कथमस्यालंकारान्तरबाधकत्वमिति ॥ किं च विविक्तविषयासत्त्वादलंकारान्तरापवादकत्वमित्यप्ययुक्तम् । विषयसद्भावमात्रेणोपपत्तौ विषयापेक्षायां मानाभावात् । लोकेऽप्यरन्ध्ररत्नानां निरवकाशतया तदाश्रयसुवर्णस्यालंकारत्वबाधापत्तेः । मीमांसादावपि पदे जुहोतीत्यादिवदुत्तरार्धे जुहोतीत्यादीनामाहवनीये जुहोतीत्यादिविविक्तविषयाभावेऽपि सविषयत्वमात्रेणावस्थानात् । प्रकृतशास्त्रेऽपि सहोत्तयादीनामतिशयोक्त्यादिविविक्तविषयाभावेऽपि तदबाधेनालंकारान्तरत्वव्यवहारात् ।। यदप्युक्तम्-उपमाप्रतिमोत्पत्तिहेतुः श्लेषोऽयम् इति, तदपि न। उपमाया एव श्लेषप्रतिभोत्पत्तिहेतुत्वात् । नगरवर्णनप्रक्रमे इवादिशब्दप्रयोगाभावे सकलकलेतिविशेषणदानेऽपि द्वितीयार्थप्रतिपत्तेरभावात् ।। ___ नन्वियं कथमुपमा । सामान्यधर्माभावात् । न च सकलकलत्वमेव तथेति वाच्यम् । कलासाकल्यकोलाहलसाहित्ययोर्भेदादिति चेत्, मैवम् । तयोरभेदाध्यवसायेन साधारण्यनिर्वाहात् । बिम्बप्रतिबिम्बभावादिस्थले वस्तुत उभयाननुगतानामपि धर्माणां साधारण्यस्वीकारेण मुख्यसाधारण्यस्याप्रयोजकत्वात् ।
'यथा प्रह्लादनाचन्द्रः प्रतापात्तपनो यथा ।
तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥' इत्यादावन्वर्थसंज्ञावत्त्वस्य साधारणधर्मत्वाच्च । साधर्म्यमात्रस्योपमात्वे. नार्थसाम्य इव शब्दसाम्येऽपि तत्संभवाच्च ।