________________
अलंकारकौस्तुभः ।
२०९ एव चन्द्र इव मुखं चन्द्रसदृशं मुखमित्यादौ न पृथगलंकारः सादृश्यतदाश्रययोरुपमेयविशेषणतायाः सत्त्वादिति चेत्
अत्राहुः—सादृश्यप्रतीतेरुभयत्राविशेषेऽपि लक्षणायाः फलीभूतताद्रूप्यज्ञानमादाय रूपकस्योपमातो भेदः । चन्द्र इवेत्यादौ च लक्षणाविर हान्न ताद्रूप्यप्रतीतिरिति नोक्तदोषः । ताद्रूप्यज्ञानं च विषयितावच्छेदकस्य चन्द्रत्वादेर्मुखादौ बोधः । न च लक्षणाजन्येऽपि तत्सदृशबोधे कथं ताद्रूप्यप्रत्यय इति वाच्यम् । श्लेषादेकपंदोपस्थापितव्यञ्जनयैव तत्संभवात् । न चैवमपि चन्द्रसादृश्यविशिष्ट एव चन्द्रताद्रूप्यप्रत्ययः स्यात्, तयोरेवैकशब्दोपात्तत्वात् । इष्यते च मुखत्वविशिष्टे मुखे चन्द्रताद्रूप्यप्रत्यय इति
मात्रेणालंकारान्तरत्वमित्यङ्गीक्रियते, तत्राह-अत एवेति । चन्द्र इव मुखमित्यत्र सादृश्यमुपमेयविशेषणम्, 'चन्द्रसदृशं मुखम्' इत्यत्र च तद्विशिष्टो मुखविशेषणम् । अतो द्वितीयस्थलेऽपि रूपकमेव स्यात् । वाच्यलक्ष्यत्वभेदस्याप्रयोजकत्वात् । न चेष्टापत्तिः । चन्द्रसदृशमित्यादावार्थी उपमैवेति सर्वसंमतत्वात् । एवं च पृथगित्यस्य रूपकातिरिक्तालंकारापादनं नार्थः किंतु चन्द्र इव मुखमित्येतद्वाक्यवृत्त्यलंकारातिरिक्तालंकारापादनमेवेति रूपकापादान एव पर्यवस्यतीति ध्येयम् ॥ लक्षणाया इति । चन्द्रपदस्य चन्द्रसादृश्यविशिष्टलक्षणाया इत्यर्थः । नन्वेवं चन्द्र इवेत्यादावपि कुतो न ताद्रूप्यप्रत्ययः, सादृश्यप्रत्ययमात्रस्यैतदवगमकत्वेऽत्रापि तदविशेषादित्याशङ्कयाह-चन्द्र इत्यादि ॥ लक्षणाविरहादिति । तथा च सादृश्यमात्रस्य न तदाक्षेपकत्वं किंतु लक्षणाया एवेति भावः । विषयितेति । आरोप्यतावच्छेदकेत्यर्थः । ननु लक्षणाया सादृश्यविशिष्टजनकत्वेऽपि कथं ततस्ताद्रूप्यप्रत्ययो भविष्यतीत्यत आह-न चेति । लक्षणाजन्यत्वमात्रस्याप्रयोजकत्वात् । सादृश्यस्यैव तदाक्षेपकत्वे तु उक्तदोषतादवस्थ्यादिति भावः ॥ अभिप्रायमाह-श्लेषादित्यादि ॥ एकपदेति । चन्द्रपदेन चन्द्र स्य शक्तया चन्द्रसादृश्यस्य च लक्षणया वोधात् , तन्मूलकव्यञ्जनया उभयोरभेदबोधादिति भावः । नन्वेवमपि चन्द्रसादृश्य एव चन्द्रत्वरूपविषयितावच्छेदकधर्मबोधः स्यान तु मुखे तस्यैकशब्दानुपात्तत्वात् । एवं च मुखे चन्द्रताद्रूप्यप्रत्ययोऽनुपपन्न एवेत्याशङ्कते-न चैवमिति ॥ इष्यते चेति । उपमान]रूपकयोर्भदसिद्ध्यर्थमित्याशयः ।
१. 'श्लेषादिवदेकपदो' क-ख. २. 'पदोपादानोत्थापि' ख.
१. 'अन्यथा' ख.
२७