________________
२१०
काव्यमाला।
वाच्यम् । चन्द्रसादृश्यविशिष्टे चन्द्रताद्रूप्यप्रत्यये जाते चन्द्रसादृश्यविशिष्टाभिन्ने मुखेऽपि चन्द्रताद्रूप्यप्रत्ययसंभवात्-इति ॥
केचित्तु-चन्द्रसदृशे लक्षणायामपि न तेन रूपेण मुखादिभिरभेदान्वयः, किं तु चन्द्रत्वेनैव । तत्तत्पदलक्षणाज्ञानस्य तत्तत्पदवाच्यतावच्छेदकप्रकारकलक्ष्यविशेष्यकशाब्दत्वमेव कार्यतावच्छेदकं कल्प्यते, शाब्दपदार्थोपस्थित्योः समानप्रकारकत्वनियमोऽप्येतदतिरिक्तस्थलमात्रपरः । प्रकृते लाक्षणिकबोधवैलक्षण्यस्यानुभवसिद्धत्वाच्च न गौरवादिदोषः । मुखे
चन्द्रसादृश्येति । प्रथममुक्तरीत्या चन्द्रसदृशविशेष्यकचन्द्रत्वप्रकारकबोधस्य व्यअनयाभ्युदये ततश्चन्द्रसदृशाभिन्ने मुखेऽपि चन्द्रत्वप्रकारकबोधः । अतो सुखे चन्द्रताद्रूप्यप्रत्ययः सिद्ध एवेति भावः । न च लक्षणां विनैव नामार्थयोरभेदान्वयव्युत्पत्त्या चन्द्रप्रकारकाभेदसंसर्गकमुखविशेष्यकबुद्धिसंभवात्किमर्थ लक्षणाखीकार इति वाच्यम् । अस्ति हि चमत्कारकसाधारणधर्मानुपस्थितिदशायामुपमाया इव रूपकस्याप्यनिष्पत्तिश्चमत्काराभावश्चेति सर्वानुभवसिद्धम् । कथमन्यथा । 'भारतं नाकमण्डलं नगरं विधुमण्डलम्' इत्यादौ रूपकालंकारानुल्लासेऽपि सुपर्वालंकृत्वसकलङ्कत्वादिरूपधर्मोपस्थित्या रूपकोल्लासश्चमत्कारोदयश्च । परं तूदाहृतस्थले अप्रसिद्धतया धर्मस्य शब्दत उपादानमपेक्ष्यते मुखं चन्द्र इत्यादौ तु प्रसिद्धतया तद्बोध इति न नियमस्तस्य शाब्द. मुपादानमिति विशेषः । एवं च यदि रूपके सादृश्यस्यानुप्रवेशो नास्ति, तदुक्तधर्मानुपस्थितिदशायां कथं न रूपकपर्यवसानं तदाप्यभेदबोधकसामग्र्या अवैकल्पात् । न चाहार्याभेदवुद्धौ चमत्कारे वा सादृश्यज्ञानं कारणमिति वाच्यम् । 'यद्यनुष्णो भवेद्वह्निर्यद्यशीतं भवेजलम् । मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक ॥' इत्यादौ साहश्यज्ञानाभावेऽप्यभेदबुद्धेरुदयात् । न चोपमानोपमेयस्थल एवैवं कल्प्यत इति वाच्यम् । प्रमाणाभावात् । अतोऽत्र सादृश्यलक्षणाया आवश्यकत्वमेवेति एतदर्थशेषो द्रष्टव्यः ॥ साक्षादेव विषयितावच्छेदकप्रत्ययं लक्षणापक्षेऽप्यङ्गीकुर्वतां मतमाह-केचित्त्विति। तेन रूपेणेति । लक्ष्यतावच्छेदकप्रकारेणेत्यर्थः । चन्द्रत्वेनेति । शक्यतावच्छेदकधर्मेणैवेत्यर्थः । ननु चन्द्रसदृशलक्षणाज्ञानस्य चन्द्रसादृश्यप्रकारकज्ञानत्वमेव कार्यतावच्छेदकं कुप्तमिति चन्द्रसदृशत्वेनैवान्वयो युक्तो न तु चन्द्रत्वेन लक्षणाज्ञाननिष्ठकारणतानिरूपितलक्ष्यतावच्छेदकावच्छिन्नप्रकारताकज्ञानत्वरूपकार्यतावच्छेदकानवच्छिन्नत्वादित्यत आह-तत्पदेति । ननु येन रूपेण पदार्थोपस्थितिस्तेनैवेतरपदार्थान्वयो भवति तत्कथमत्र चन्द्रसदृशत्वेनार्थोपस्थितौ चन्द्रत्वेन शाब्दबोधो भविष्यतीत्यत आह- - शाब्देति । नन्वेवं सति लक्षणाज्ञानस्य लक्ष्यतावच्छेदकप्रकारकज्ञानत्वरूपकार्यतावच्छेदकमपहाय यथोक्तं कार्यतावच्छेदकान्तरकल्पनागौरवमित्यत आह-प्रकृत इति ।