________________
काव्यमाला ।
सिद्धान्तभङ्गापत्तेः । एवं च 'सेको न वह्निकरणकः' इत्ययोग्यताज्ञानसत्त्वेऽपि आहार्ययोग्यताज्ञानाद्वह्निना सिञ्चति इत्यादावपि शाब्दबोधो भवत्येवेत्याहुः ॥
२०८
यत्तु—शाब्दबोधस्याप्याहार्यत्वमस्तु बाधकाभावादिति, तत्तुच्छम् । तथा सत्यनुमित्यादावनाहार्यस्यैव परामर्शस्य हेतुत्वात् वह्निव्याप्यधूमवान् पर्वत इत्यादिशाब्दात्मकपरामर्शस्थलेऽपि कारणतावच्छेदककोटावनाहार्यत्वनिवेशे गौरवप्रसङ्गात् । एवमन्यत्रापि बोध्यम् ।
केचित्तु – 'मुखं चन्द्रः' इत्यादौ 'मुखं न चन्द्रः' इत्याद्ययोग्यतानि - यसत्त्वेऽभेदान्वयो न जायते, किं तु चन्द्रपदस्य चन्द्रसादृश्यविशिष्टलक्षणया चन्द्रसादृश्यविशिष्टभिन्नं मुखमित्येव बोध इत्याहुः ॥
अथैवमुपमारूपकयोरभेदापत्तिः । सादृश्यप्रत्ययस्योभयत्राप्यविशिष्टत्वात् । न चोपमायां सादृश्यमुपमेयविशेषणम्, रूपके तु तद्वानिति भेद इति वाच्यम् । बोधवैलक्षण्येऽपि विच्छित्तिसाम्येन पार्थक्यानुपपत्तेः । अत
रूपतया आहार्यत्वस्वीकारेऽपि सिद्धान्तविरोधाभावादिति भावः ॥ नन्वेवं वहिना सिञ्चतीत्यादावप्याहार्ययोग्यताज्ञानाच्छाब्दबोधः स्यादित्याशङ्कयेष्टापत्तिमाह — एवं चेति । गौरवेति । सिद्धान्ते तु शाब्दस्यानाहार्यत्वनियमात्तादृशस्थले प्रयोज - नाभावादनाहार्यत्वं न निवेश्यत इति भावः । एवमिति । यत्रानाहार्यज्ञानस्यैव हेतुता तत्र परोक्षज्ञानीयहेतुतायामनाहार्यत्वं कारणतावच्छेदककोटौ न निविशत् इति भावः । अन्ये त्विति । अयोग्यतानिर्णयदशायां शाब्दधीवारणायैव हि योग्यताज्ञानस्य हेतुता कल्प्यते । यदि त्वयोग्यतानिर्णयकालेऽपि उक्तरीत्या शाब्दबोध इष्टस्तदा तद्धेतुत्वकल्पनमेव दुर्लभं स्यात् । अतस्तत्राभेदानन्वयबोधो न भवतीत्येवाभ्युपेयमित्येषामभिप्रायः ॥ कथं तर्हि तत्रान्वयबोध इत्यत आह- किं त्विति । चन्द्रपदस्य चन्द्रसादृश्ये लक्षणा अतश्चन्द्रसदृशाभिन्नं मुखमित्येव बुद्धिरिति भावः । अत्र चन्द्रसा - दृश्यमात्रे लक्षणायां सादृश्यस्य निपातभिन्ननामार्थत्वेन आश्रयत्वसंबन्धेन मुखान्वयो न स्यात् । अतो भेदान्वयार्थ विशिष्टलक्षणेत्यवधेयम् ॥ स्यादेतदेवं सत्युपमाया रूपकस्य च किं भेदकमित्याशङ्कते — अथैवमिति । उभयत्रेति । चन्द्र इव मुखमित्यत्रापि चन्द्रसादृश्यस्य मुखवृत्तित्वावगाहनादित्यर्थः । सादृश्यमिति । तावन्मात्रस्य इवपदार्थत्वात् । तस्य चानुयोगित्वेन मुखान्वयादित्यर्थः । रूपके त्विति । सादृश्यविशिष्टस्यैव लक्ष्यतया अभेदसंसर्गेण मुखान्वयादिति भावः । यदि तु विशेषणादिकृत वैलक्षण्य