________________
अलंकारकौस्तुभः ।
२०७ गतलावण्यादिगुणेन लक्षणायामन्यगुणस्यान्यत्र वृत्तिनिमित्तत्वानुपपत्तिः । मुखगतलावण्यादिगुणेन लक्षणायां मुख्यार्थसंबन्धरहितगुणेन तदनुपपत्तिरिति चेत्
अत्राहुः-मुखचन्द्रोभयानुगतलावण्यादिसामान्यमुखेन लक्षणेति ।
केचित्तु-रूपकस्थले न लक्षणा, चन्द्रत्वरूपेण व्यधिकरणधर्मेण चन्द्रशब्देन शक्त्यैव मुखबोधसंभवात् । नामार्थयोरभेदान्वयव्युत्पत्तेःइत्याहुः ॥
ननु 'मुखं न चन्द्रः' इति बाधनिर्णयसत्त्वे योग्यताज्ञानाभावात्कथं मुखचन्द्र इत्यादावभेदान्वयबोध इति चेत्
अत्र नैयायिकाः—आहार्यज्ञाने बाधबुद्धेरप्रतिबन्धकतया आहार्ययोग्यताज्ञानादेव तत्रान्वयबोधः । न चाहार्यात्मकः शाब्दबोध एवास्तु किमाहार्ययोग्यताज्ञानकल्पनयेति वाच्यम् । तथा सति परोक्षज्ञानमनाहार्यमेवेति
जन्यतावच्छेदकत्वोपगमे मुखपदेन मुखत्वप्रकारकबोधजननात् । मुखं इतिवदयोग्यत्वाचेति भावः । चन्द्रगतेति । तथा च 'चन्द्रगतलावण्यादिमन्मुखम्' इति बोध इत्यर्थः । अन्येति । चन्द्रगतगुणानां चन्द्रपदस्य मुखे प्रवृत्तिनिमित्तत्वं न स्यात् । लक्ष्यवृत्तिगुणानामेव तथात्वादित्यर्थः। पदार्थनिदर्शनातो वैलक्षण्यानुपपत्तिरपि द्रष्टव्या। मुखगतेति। तथा च मुखगतलावण्यादिमन्मुखमिति बोध इत्यर्थः । मुख्याथैति । चन्द्रस्यैव मुख्यार्थत्वात्तत्र च मुखगुणसंबन्धराहिल्यादित्यर्थः । व्यधिकरणेति । उपमेयतावच्छे. दकव्यधिकरणेत्यर्थः । नामार्थयोरिति । समानविभक्त्यवरुद्धत्वेन तदभेदः संसर्गतया भासत इत्यर्थः । एषां च चन्द्रगतत्वावच्छिन्नप्रकारतानिरूपिताभेदनिष्टसंसर्गतानिरूपितमुखत्वावच्छिन्नविशेष्यताकबोध एवंविधस्थले संमतः । स चानुपपन्नः। 'मुखं न चन्द्रः' इति मुखत्वावच्छिन्नविशेष्यताकचन्द्रत्वावच्छिन्नप्रतियोगिताकभेदप्रकारकज्ञानसत्वे तदसंभवादित्याह-नन्विति । योग्यतेति । मुखं चन्द्राभिन्नमिति योग्यताज्ञानस्यैव तादृशशाब्दबोधहेतुत्वात् । 'मुखं चन्द्रः' इति ज्ञानसत्वे च तदनुदयात् । तद्यतिरेकेण च शाब्दानुदयादिति भावः । न च प्रकृते भेदस्य सांसर्गिकविषयतया भानाभ्युपगमात्कथं तत्र भेदप्रकारकज्ञानस्य प्रतिबन्धकत्वमिति वाच्यम् । अभेदविषयकज्ञानस्यैव भेदज्ञानप्रतिबध्यतावच्छेदकत्वात् ॥ आहार्येति । सत्यप्युक्तबाधज्ञाने मुखत्वावच्छिनविशेष्यताक(अ)भेदसंसर्गकचन्द्रत्वावच्छिन्नप्रकारकबोधो जायतामितीच्छया मुखं चन्द्राभिन्नमिति योग्यताज्ञानं संभवत्येव । इच्छाधीनज्ञाने बाधबुद्धेरप्रतिबन्धकत्वादित्यर्थः । परोक्षेति । प्रत्यक्षान्यज्ञानमित्यर्थः । योग्यताज्ञानस्य चोक्तस्य मानसप्रत्यक्ष- .