________________
२०६
काव्यमाला |
त्वनाहार्यैवेति केचित् । अभेदारोप एव रूपकमिति काव्यप्रदीपः ।
अन्ये तु —
'उपमैव तिरोभूता भेदा रूपकमिष्यते ।'
इति प्राचीनोक्तिविरुद्धमेतत् । उपमा हि साधर्म्यरूपा भेदांशविनिर्मुक्तं साधर्म्यमेव रूपकमिति तदर्थात् । तस्मात् 'यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात् । उपमेये भवेद्वृत्तिस्तदा तद्रूपकं भवेत् ॥'
इत्युक्तदिशा सारोपलक्षणालभ्यं सारूप्यमेव रूपकमित्याहुः ॥ ननु मुखचन्द्रः इत्यत्र चन्द्रपदस्य मुखत्वेन मुखलक्षणायां पौनरुक्तत्यम् । चन्द्र
बोधविषयीभूत इति शेषः । आहार्येति । मुखत्वादिरूपधर्मोपस्थित्यानाहार्याभेदज्ञानानुपपत्तेरित्याशयः ॥ ' तद्रूपकमभेदो य उपमानोपमेययोः' इति काव्यप्रकाशखरसोऽप्यत्रेति ध्येयम् ॥ एवमारोप्यमाणो भेद एव रूपकमित्युक्त्वा अभेदारोप एव रूपकमिति मतमाह - - अभेदारोप इति । इदं च चण्डीदासस्याभिमतम् । यदाह — अलंकारश्चात्राहार्यस्तादात्म्यारोप एवेत्यवसेयमिति । जयरामभट्टाचार्यमतमाह - अन्ये त्विति । प्राचीनेति । सरस्वतीकण्ठाभरणादीत्यर्थः । एतदिति । उक्तमतद्वयमपीत्यर्थः । सादृश्येति । तद्भिन्नत्वे सति तद्गतभूयो धर्मवत्त्वरूपमित्यर्थः । भेदांशेति । भेदानवगाहिज्ञानविषयेत्यर्थः । गौणवृत्तीति । गौणसारोपलक्षणेत्यर्थः । उपमेय इति । चन्द्रादिपदानां तत्सादृश्यविशिष्टलक्षणया उपमेयप्रतिपादकत्वमित्यर्थः । किंचाभेदस्य तदारोपस्य वा रूपकत्वे तस्य व्यङ्ग्यत्वमेव स्यात् । तथा च - - ' भ्रमितिमिरमल• सहृदयतां प्रलयं मूर्छा तमः शरीरसादं च । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥' इत्यत्र विषपदव्यङ्गयं हालाहलम्, वाच्यस्य भुजगरूपकस्य सिद्धिकृदिति पञ्चमोल्लासविरोधः स्यात् । अभेदतदारोपयोरवाच्यत्वात् । सादृश्यस्यैव रूपकत्वे तु तस्य लक्ष्यतया तदविरोधः । न चैवं 'नियतारोपणोपायः स्यादारोपः परस्य यः' इति परम्परितरूपकस्य आरोपरूपकत्वकथनमयुक्तम्। रूपकसामान्यस्य त्वदुतरीत्या सादृश्यरूपत्वादारोपत्वाभावे तद्विशेषस्य परम्परितस्यापि आरोपरूपत्वानुपपत्तेः । काव्यप्रदीपादिरीत्या तु आरोपस्यैव रूपकशरीरत्वाभ्युपगमान्नानुपपत्तिरिति वाच्यम् । तत्रारोपपदस्य तत्प्रयोजकसाधर्म्यपरत्वादिति तद्रन्थशेषार्थः ॥ लक्षणाप्रकारं वक्तुमा शङ्कते - नन्विति । पौनरुक्त्त्यमिति । मुखत्वप्रकारक बोधस्य चन्द्रपदलक्षणाज्ञान१. ' तदर्थलाभात्' ख.
१. 'साधर्म्य' इति मूलपुस्तकपाठः .