________________
000.......
अलंकारकौस्तुभः ।
२०५
|] अत्राभेद एव रूपकं तस्य प्रतीतिराहार्या । भ्रान्तिमति
इति सावयवरूपकोदाहरणे, तत्रापि विषयविषयिणोस्तद्विशेषणानां च प्रत्येकमेवैक्यारोपः । न तु ज्योत्स्ना दिविशिष्टरात्रिरूपविषयस्य भस्मादिविशिष्टकापालिकी रूपविषयिणश्च विशिष्टरूपेणैक्यारोपोऽस्तीति । ननु तत्र ज्योत्स्नादीनां भस्मादीनां च परस्परारोपवशात्केवलानां तेषां रात्रिविशेषणतया कापालिकी विशेषणतया च शाब्दबोधाभावात् । अस्तु विषयविषयिणोर्बिम्बप्रतिबिम्बभावापन्न वस्तुविशिष्टत्वाभावः । कन्दर्पद्विपेत्यादौ तु कलङ्कादीनां चन्द्रमण्डलविशेषणतया दानजलादीनां च कम्बुप्रभृतिविशेषणतया शाब्दबोधोदयात् । विषयस्य वैशिष्ट्यं दुर्वारमेव । न चात्रापि शशिमण्डले कम्बुतादात्म्यस्यैवारोपः कलङ्कदान जलादीनां चाभेदबोधः पृथगेवेति बिम्बवैशिष्ट्यं नास्ति कलङ्कस्य विषयतावच्छेदकत्वानभ्युपगमादिति वाच्यम् । चन्द्रादिविशेषणत्वेन प्रतीयमानानां कलङ्कादीनां विषयतावच्छेदकत्वाद्यनभ्युपगमे मानाभावात् । स्वकल्पितनियमानुरोधेन शाब्दविषयस्यार्थस्यानपवादात् । उच्यते अत्राङ्कितत्वलाञ्छितत्वयोर्वस्तुं प्रति वस्तुभावापन्नत्वेन तद्विशेषणतयैव बिम्बप्रतिबिम्बभावेन कलङ्कदानजलत्वयोरुपादानात् । विषयस्य शशिमण्डलस्य बिम्बा - विशिष्टसत्वेनाव्यात्यनवकाशात् ॥ नन्वेतावता विषयस्य बिम्बवैशिष्टयमक्षतमेव, बिम्बभावाविशेष्यतया वस्तुप्रतिवस्तुभावेन धर्मोक्तिस्थलेऽप्युपमायाः सर्वसंमतत्वात् ॥ उच्य - ते-रूपकलक्षणे साक्षात् बिम्बप्रतिबिम्बभावापन्नधर्मविशिष्टत्वाभावस्यैव बिम्बा विशिष्टपदेन विवक्षितत्वमिति वाच्यत्वात् । ' त्वत्पादनखरत्नानाम्' इत्यत्रातिव्याप्तिवारणस्य तावतैव भानात् । तत्र मार्जनपाण्डुरीकरणयोर्विषयविषयीभावापन्नत्वेन तत्र साक्षादेवालक्तकश्रीखण्डलेपयोर्विषयविशेषणत्वात् ॥ यच्च निर्दिष्टपदे दूषणमुक्तम्, तदपि न । उपमेय - तावच्छेदकरूपेणैवाभिधानस्य विवक्षितत्वात् । अपह्नुतौ चोपमेयस्य निषेधेऽपि तद्रूपेणाभिधानसत्त्वादतिव्याप्तिसंभवेन तद्वारकविशेषणान्तरस्यावश्यकत्वात् । न च तथापि निश्चये आहार्यत्वविशेषणवैयर्थ्यमेव, तत्रोपमेयतावच्छेदकरूपेणानभिधानादेव व्यभिचारविरहादिति वाच्यम् । इष्टापत्तेः । उपरञ्जकतापदार्थस्य प्रकृते तन्निर्मुक्तस्यैवाभिधानेऽपि क्षतिविरहात् ॥ यदप्युक्तम्- 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसी मुखम्' इति कुवलयानन्दे दीक्षितोक्तायामपह्नुतावतिव्याप्तिः । तत्र चन्द्रे सुधांशुत्वनिषेधेऽपि आरोपविषयस्य मुखस्यानिह्नवात् । न चेदं रूपकमेवेति वाच्यम् । खोक्तिविरोधापत्तेरिति ॥ तदपि न । तथा हि तत्र प्रसिद्ध चन्द्रे सुधांशुत्वनिषेधान्मुखे प्रसिद्ध चन्द्राभेदो नारोप्यते बाधात् । किंतु सुधांशुपदवाच्यत्वं चन्द्रे निषिध्य मुखमेव सुधांशुपदवाच्यमित्येव बोध्यते। ‘इन्द्रो मरुत्वान्मघषा' इत्यादिवत् । एवं 'साक्षात्सुधांशुर्मुखमेव भैम्या दिवः स्फुटं लाक्षणिकः शशाङ्कः । एतद्ध्रुवौ मुख्यमनङ्गचापं पुष्पं पुनस्तद्गुणमात्रवृत्त्या ॥' इत्यत्रापि लाक्षणिकादिपदभङ्गया प्रसिद्धचन्द्रादौ चन्द्रत्वादिकं निषिध्य मुखादेश्चन्द्रादिपदवाच्यत्वमेव व्यवस्थाप्यते इति दिक् ।] चक्रवर्तिमतमाह - अत्रेति । अभेद इति । शाब्द