________________
२०४
काव्यमाला।
चन्द्रत्वाभावचन्द्रभेदादिविषयकज्ञानप्रतिबन्धेनोपाहितस्तत्र प्रायशोऽव्याप्तिरिति वाच्यम् । एवं तदनुरोधेन खरूपयोग्यत्वविवक्षायामपि संशयस्य प्रतिबन्धकतावच्छेदकधर्मानवच्छिन्नतया खरूपयोग्यत्व एव मानाभावादिति संक्षेपः ॥
चित्रमीमांसाकृतस्तु–'बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिद्भुते । उपरञ्जकतामेति विषयीरूपकं तदा ।।' आयेन विषयविशेषणेन 'त्वत्पादनखरक्तानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥ इति निदर्शनायां व्यभिचारवारणम्, तत्र मार्जनस्यालक्तकादिरूपबिम्बविशिष्टत्वात् । तत्स्थानापन्नश्रीखण्डरूपप्रतिबिम्बधर्मस्य विषयकोटथुपन्यासात् । द्वितीयेन तद्विशेषणेन निगीर्याध्यवसानरूपाया अतिशयोक्तेनिरासः । तत्र मुखत्वाद्युपस्थापकपदप्रयोगविरहात् । तृतीयेनापद्दुतेर्वारणम् , तत्र मुखादे. निषेधेन निद्भुतत्वात् । उपरञ्जकता आहार्यतादात्म्यनिश्चयगोचरतां एतीत्यनेन संदेहोत्प्रेक्षासमासोक्तिपरिणामभ्रान्तिमत्सु व्यभिचारवारणम्, आद्यद्वये निश्चयाभावात् । तदुत्तरद्वये(प्रिय)विषयताद्रूप्यानवगाहनात् । अन्त्ये आहार्यत्वविरहादित्याहुः ॥ __ अत्र रसगङ्गाधरकृतः आद्यविशेषणं निदर्शनावारकं व्यर्थमेव, तत्रापि वाक्यार्थरूपस्वीकारेण निदर्शनात्वाभावात् । निर्दिष्टपदस्यापि किं 'कथंचिदभिहिते' इत्यर्थः । उत–'उपमेयतावच्छेदकरूपेणाभिहिते' इति । नाद्यः । 'सुन्दरं कमलं भाति लतायामिदमद्भुतम्' इत्यतिशयोक्तौ सुन्दरत्वेन रूपेण वदनस्याप्यभिधानादतिव्याप्तेः । न द्वितीयः, अपहुतिवारकविशेषणवैयर्थ्यात् । तत्रोपमेयतावच्छेदकस्य निषेध्यतया तेन रूपेण विषयस्यानिर्देशादत एव तयावृत्तेः । भ्रान्तिमद्वारणायाहार्येतिनिश्चयविशेषणवैयर्थ्याच्च तत्रोपमेयतावच्छेदकप्रकारकप्रतीत्यभावादेव व्यभिचारानवकाशादित्याहुः ।। तच्चिन्त्यम् । रूपकसमाप्त्यवसरे सप्रपञ्चं वाक्यार्थरूपकस्य निराकरिष्यमाणत्वेन 'त्वत्पादनखरत्नानाम्-' इत्यत्र रूपकत्वाभावस्य व्यवस्थापनीयतया तत एवाद्यदोषस्य निरासात् ॥ ननु तथापि बिम्बाविशिष्टेति विषयविशेषणे 'कन्दर्पद्विपकर्णकम्बु मलि. नैर्दानाम्बुभिाञ्छितं संलग्नाञ्जनपुञ्जकालिमकलं गण्डोपधानं रतेः । व्योमानोकहपुष्पगुच्छमलिभिः संच्छाद्यमानोदरं पश्यैतच्छशिनः सुधासहचरं बिम्बं कलङ्काङ्कितम् ॥' इत्यत्र रूपकेऽव्याप्तिः । अत्र शशिमण्डलरूपविषयस्य कलङ्करूपबिम्बविशिष्टत्वात् । तत्स्थानीयदानजलादिरूपप्रतिबिम्बानां विषयीभूतेषु कम्बुप्रभृतिषु निर्देशात् । न चेदं रूपकमेव न भवतीति वाच्यम् । अनुभवविरोधात् । संमतापेक्षा वैलक्षण्यानिरुक्तेश्च । अलंकारसर्वखविवरणकारादिभिः रूपकत्वेन । खीकारादिति चेत् सत्यम् । अत्र तेनैव समाहितत्वात् । तथा च कुवलयानन्दे निदर्शनाप्रकरणे दीक्षितैरुक्तम् । यत्र तु विषयविषयिविशेषणानां परस्परसादृश्येन बिम्बप्रतिबिम्बभावोऽस्ति 'ज्योनाभस्मच्छरणधवला बिभ्रती तारकास्थीन्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्रा कपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ॥'
१. इत्यधिकं ख-पुस्तके.